________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[श्माशानिकः ] श्मशानेऽध्यायी = श्माशानिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[श्माशानाभ्यासिकः] श्मशानस्याभ्यासं निकटं-समीपं = श्मशानाभ्यासम्, तत्राध्यायी = श्माशानाभ्यासिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।।
अकाल-[सान्ध्यिकः] सन्ध्या । सन्ध्यायामध्यायी = सानिध्यकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
+[औल्कापातिकः] उल्कापातेऽध्यायी = औल्कापातिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[आनध्यायिकः] न अध्यायः = अनध्यायः । अनध्यायेऽध्यायी = आनध्यायिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०॥छ।।
निकटादिषु वसति ॥ ६।४।७७ ॥ [निकटादिषु ] निकटमादिर्येषां ते = निकटादयः, तेषु = निकटादिषु । पञ्चमी भ्यस् । सूत्रत्वाल्लुप् । [ वसति ] वसतीति वसत्, तस्मिन् ।
[नैकटिकः] निकट | निकटे वसति = नैकटिकः । अनेन इकण्प्र० → इक | 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[आरण्यिकः] अरण्ये भवः = आरण्यकः । 'अरण्यात् पथि-न्यायाऽध्यायेभ-नर-विहारे' (६।३।५१) अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यमिति यस्य शास्तुरितः शास्त्र(त्रं) सञ्जातमस्य नियमस्यानियमस्य । 'तदस्य सञ्जातं तारकादिभ्य इतः (७१।१३८) इतस्प्र० । शास्त्रितो वासः स एवोच्यते । एतदर्थ एव च तत्रेत्यधिकारे सप्तमी निर्देशः ।
[वार्भमूलिकः] वृक्षमूले वसति = वार्भमूलिकः । अनेन इकणप्र० + इक । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र०।
[श्माशानिकः ] श्मशाने वसति = श्माशानिकः । अनेन इकणप्र० - इक । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[आभ्यवकाशिकः] अभिगतोऽवकाशः = अभ्यवकाश:-मुत्कलप्रदेशः, तत्र वसति = आभ्यवकाशिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[आवसथिकः] अवसथे वसति = आवसथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
ॐ बृहवृत्तौ - औत्पातिकः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[336]