________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३३५
तत्र नियुक्ते ।। ६।४।७४ ॥ [तत्र तत्र पञ्चमी ङसि । सूत्रत्वाल्लुप् । [नियुक्ते ] नियुक्त सप्तमी ङि ।
नियुक्तोऽधिकृतो व्यापारित इत्यर्थः । पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः । एतत्सूत्रोपात्तः प्रत्ययार्थश्चायम् । नियुक्तः पूर्वसूत्रोपात्तः, स तु प्रकृत्यर्थोपाधिः ।
[शौल्कशालिकः ] शुल्कशालायां नियुक्तः = शौल्कशालिकः । [आपणिकः] आपणे नियुक्तः = आपणिकः ।
[आतरिकः] आतरे नियुक्तः = आतरिकः ।
[ दौवारिकः] द्वारे नियुक्तः = द्वौवारिकः । अनेन इकणप्र० → इक । 'लोकात्' (१।१।३) द् पाठउ विश्लेषियइ । 'द्वारादेः' (७४।६) औ ।
[आक्षपटलिकः] अक्षाणां-व्यवहाराणां पटलं-समूहः, तत्र नियुक्तः = आक्षपटलिकः । आखण्डलिउ इति यस्य प्रसिद्धिः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
अगारान्तादिकः ।। ६।४/७५ ॥
[अगारान्तात् ] अगारो अन्ते यस्य सः = अगारान्तस्तस्मात् । [इकः ] इक प्रथमा सि ।
[देवागारिकः, देवागारिका] देवस्यागारं = देवागारम्, तत्र नियुक्तः = देवागारिकः । अनेन इकप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[भाण्डागारिकः, भाण्डागारिका] भाण्डानां-पात्राणामगारं = भाण्डागारम्, तत्र नियुक्तः = भाण्डागारिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।।
[आयुधागारिकः, आयुधागारिका] आयुधानामगारमायुधागारम्, तत्र नियुक्तः = आयुधागारिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[कोष्ठागारिकः, कोष्ठागारिका] कोष्ठागारे नियुक्तः = कोष्ठागारिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०॥छ।।
। अदेश-कालादध्यायिनि ॥ ६।४।७६ ॥ [अदेशकालात् ] देशश्च कालश्च = देशकालम् । न देशकालमदेशकालम्, तस्मात् । [अध्यायिनि] अध्यायिन् । अध्य(अ)धीयत इत्येवंशीलः = अध्यायी, तस्मिन् ।
अदेश- [आशुचिकः] अशुचि । अशुचावध्यायी = आशुचिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [335]