________________
३३४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
श्राणा-मांसौदनादिको वा ॥ ६।४७१ ॥ [श्राणामांसौदनात् ] श्राणाश्च मांसौदनश्च = श्राणामांसौदनम्, तस्मात् । [इकः] इक प्रथमा सि । [वा] वा प्रथमा सि ।
[श्राणिकः पथ्याशी, श्राणिका, श्राणिकी] श्राणा । श्राणा-यवागू: नियुक्तमस्मै दीयते = श्राणिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० । इकेकणोः स्त्रियां विशेषः । यथाश्राणिकी । अत्र 'इकण्' (६।४।१) इत्यनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[मांसौदनिकः, मांसौदनिका, मांसौदनिकी] मांसश्च ओदनश्च = मांसौदनः । मांसौदनो नियुक्तमस्मै दीयते = मांसौदनिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० । इकेकणोः स्त्रियां विशेषः । यथा-मांसौदनिकी । अत्र 'इकण्' (६।४।१) इत्यनेन इकणप्र० → इक । 'वृद्धिः स्व वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् ॥छ।।
भक्तौदनाद्वाऽणिकट् ॥ ६।४।७२ ॥ [भक्तौदनात् ] भक्तं च ओदनं च = भक्तौदनम्, तस्मात् । [वा] वा प्रथमा सि । [अणिकट ] अण् च इकट् च = अणिकट् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।
[भाक्तः, भाक्तिकः] भक्तमस्मै नियुक्तं दीयते = भाक्तः । अनेन अण्प्र० + अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-भाक्तिकः । 'इकण्' (६।४।१) इत्यनेन इकण्प्र० इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ओदनिकः, ओदनिकी, औदनिकः] ओदनमस्मै नियुक्तं दीयते = ओदनिकः । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । एवम्-औदनिकः । 'इकण्' (६।४।१) इत्यनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औं । 'अवर्णवर्णस्य' (७/४/६८) अलुक् ॥छ।।
नवयज्ञादयोऽस्मिन् वर्त्तन्ते ।। ६।४।७३ ।। [नवयज्ञादयः ] नवयज्ञ आदिर्येषां ते-तेभ्यो वा । पञ्चमी भ्यस् । सूत्रत्वाल्लुप् । [अस्मिन् ] अस्मिन् सप्तमी ङि । सूत्रत्वाल्लुप् । [वर्त्तन्ते ] वर्त्तन्ते क्रिया प्रथमा सि । सूत्रत्वाल्लुप् ।
[नावयज्ञिकः] नवा यज्ञा(नवयज्ञाः) अस्मिन् वर्त्तन्ते = नावया(य)ज्ञिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[पाकयज्ञिकः] पाकेन-हविविशेषेण साध्यो यज्ञः = पाकयज्ञः । यद्वा पाकप्रधाना यज्ञाः = पाकयज्ञाः । पाकयज्ञा अस्मिन् वर्तन्ते = पाकयज्ञिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [334]