________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
[चतुर्दशान्यिकः, चतुर्दशान्यिका स्त्री] चतुर्भिरधिका दश । चतुर्दशान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि = चतुर्दशान्यिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[द्वादशरूपिकः] द्वादशरूपाण्यध्ययने वृत्तान्यस्य = द्वादशरूपिकः । मतान्तरे अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि ॥छ।।
भक्ष्यं हितमस्मै ॥ ६।४।६९ ॥ [भक्ष्यम् ] भक्ष्य सि-अम् । [हितम् ] हित सि-अम् । [ अस्मै ] अस्मै सप्तमी ङि । सूत्रत्वाल्लुप् । तदिति वर्त्तते ।
[आपूपिकः] अपूपा भक्ष्यं हितमस्मै = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[शाष्कुलिकः] शष्कुली । शष्कुल्यो भक्ष्यं हितमस्मै = शाष्कुलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[मौदकिकः] मोदक । मोदका भक्ष्यं हितमस्मै = मौदकिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। हितार्थो भक्षणक्रिया च तद्धितवृत्तावेवान्तर्भवति ॥छ।।
नियुक्तं दीयते ॥ ६।४।७० ॥ [नियुक्तम् ] नियुक्त क्रियाविशेषणात्' (२।२।४१) अम् । 'अतः स्यमोऽम्' (१।४।५७) अम् । [दीयते] दीयते सप्तमी ङि । तदिति अस्मै इति च वर्त्तते ।
[आग्रभोजनिकः ] अग्रभोजन । अग्रे(ग्र) भोजनमस्मै नियुक्तं दीयते = आग्रभोजनिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ मासिकः ] मांस । मांसमस्मै नियुक्तं दीयते = मांसिकः ।
[आपूपिकः] अपूपा अस्मै नियुक्तं दीयते = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[ग्रामिकः] ग्राममस्मै(ग्रामोऽस्मै) नियुक्तं दीयते = ग्रामिकः ।
[आग्रहारिकः] अग्रहारब्राह्मणादयो ग्रामः । अग्रहारमस्मै नियुक्तं दीयते = आग्रहारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
यत्र प्रतिपन्नं दिने तत्र ददाति न व्यभिचरति, व्यभिचारस्य अयं पर्यायः । नित्यमिति कोऽर्थः ? नित्यब्राह्मणेभ्यो(यः) पञ्चभ्यो भोजनं दातव्यमिति नियमः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [333]