________________
३३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ आस्तिकः] अस्ति परलोकः पुण्यं पापमिति वा मतिरस्य = आस्तिकः ।
[ दैष्टिकः] दिष्टं - दैवं तत्प्रमाणमिति वा मतिरस्य । दिष्टा वा प्रमाणानुयायिनी मार्गानुयायिनी वा प्रमाणानुपाति मतिरस्य दैष्टिकः । अनेन इकण्प्रत्ययान्ता निपात्यन्ते । 'वृद्धिः स्वरे०' (७४१) वृद्धि: । 'अवर्णेवर्णस्य' (७२४।६८) अवर्णस्य लुक् ||छ||
वृत्तोऽपपाठोऽनुयोगे || ६२४२६७॥
=
[ वृत्त: ] वृत्त प्रथमा सि ।
[ अपपाठ: ] अपपाठ प्रथमा सि । 'सो रुः' (२२१७२) स० र० ।
[ अनुयोगे ] अनुयोजनं अनुयुज्यत इति वा अनुयोगस्तस्मिन् । अनुयोगः परीक्षा । ।
=
[ ऐकान्यिकः ] एक-अन्य मण्ड्यते । एकमन्यत् अपपाठोऽनुयोगे वृत्तमस्य = ऐकान्यिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् प्रथमा सि 'सो रु' (२२११७२)
स०र० ।
[ द्वैयन्यिकः] द्वि-अन्य । द्वेऽन्येऽपपाठे (ठौ) ऽवनुयोगे वृत्तेऽस्मा (स्य) द्वैयन्यिकः । अनेन इकण्प्र० इक । 'लोकात्' (१।१।३) द् पाठउ, विश्लेषिया । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् प्रथमा सि । सो रु' (२1१1७२) स०र० ।
=
[ त्रैयन्यिकः] त्रि-अन्य । त्रीणि अन्यानि अपपाठा अनुयोगे वृत्तान्यस्य । अनेन इकण्प्र० (१।१।३) त्र् पाठउ विश्लेषयइ । 'य्वः पदान्तात्०' (७|४|५) ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् रु: ' (२|१|७२) स०र० ।
इक । 'लोकात्' । प्रथमा सि । 'सो
[ ऐकरूपिकः ] एकं रूपमध्ययने वृत्तमस्य = ऐकरूपिकः । मतान्तरे अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेर्णिति' (७१४१) वृद्धिः ऐ। 'अवर्णवर्णस्य' (७७४२६८) अलुक् ॥
बहुस्वरपूर्वादिकः || ६ ४ ६८ ॥
[ बहुस्वरपूर्वात् ] बहुस्वरं पूर्वपदं यस्य सः = बहुस्वरपूर्वपदस्तस्मात् । 'ते लुग्वा' (३।२।१०८) पदलोपः । [ इकः ] इक प्रथमा सि ।
[ एकादशान्यिकः, एकादशान्यिका स्त्री ] एकेनाधिका दश = एकादश । 'एकादश- षोडश - षोढन् ० ' ( ३।२।९१) एकादशन्निपातः । एकादशान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि एकादशान्यिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' आ ।
=
(७।४।६८) अलुक् । द्वितीये 'आत्' (२|४|१८) आप्प्र०
[ द्वादशान्यिकः, द्वादशान्यिका स्त्री] द्विदशन्। द्वाभ्यामधिका दश द्वादश 'द्वित्र्यष्टानां द्वा-त्रयोऽष्टाः प्राकृ शतादनशीति- बहुव्रीहौ' (३१२१९२) द्वि०द्वा० निपातः । द्वादशान्यपपाठरूपाण्यनुयोगेऽस्व वृत्तानि द्वादशान्यिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । द्वितीये 'आत्' (२|४|१८) आप्प्र० आ ।
=
=
[ त्रयोदशान्यिकः त्रयोदशान्यिका स्त्री] त्रिदशन् । त्रिभिरधिका दश = त्रयोदश । 'द्वित्र्यष्टानां द्वा०' (३।२।९२) त्रि० → त्रयो निपातः । त्रयोदशान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि त्रयोदशान्यिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् । द्वितीये 'आत्' (२४११८) आपप्र० आ
[ ऐकग्रन्थिकः ] एको ग्रन्थो अध्ययने वृत्तोऽस्य = ऐकग्रन्थिकः मतान्तरे अनेन इकण्प्र० इक 'वृद्धिः । । स्वरे०' (७१४१) वृद्धिः ऐ 'अवर्णे०' (७४/६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [332]