________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३३१
[याष्टीकः, याष्टीकी ] यष्टिः प्रहरणमस्य = याष्टीकः । अनेन टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् ।
[शाक्तिकः] शक्त्या जीवति = शाक्तिकः । 'वेतनादेर्जीवति' (६।४।१५) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।।
वेष्ट्यादिभ्यः ॥ ६४/६५ ॥ [वा] वा प्रथमा सि । [इष्ट्यादिभ्यः ] इष्टिरादिर्येषां ते = इष्ट्यादयः, तेभ्यः ।
[ऐष्टीकः, ऐष्टीकी, ऐष्टिकः] इष्टि । इष्टिः प्रहरणमस्य = ऐष्टीकः । अनेन टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'अणजेयेकण्' (२।४।२०) ङी । पक्षे-ऐष्टिकः । 'प्रहरणम्' (६।४।६२) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
टकारो हि ङ्यर्थः, स तु इकण्द्वारादेः सिद्ध इत्यधिकारस्य टकारस्य एतदेव फलम् । यद् 'अवर्णेवर्णस्य' (७४।६८) इति इलोपं बाधित्वा 'समानानां तेन दीर्घः' (१२।१) इति दीर्घ टीकणि अकृतेऽपि शाक्तीकादयो भवन्ति, परमुत्तरत्र आम्भसीक इति सिद्ध्यर्थं टीकण्ग्रहणम् ।
[ऐषीकः, ऐषीकी, ऐषिकः] ईषा । ईषा प्रहरणमस्य = ऐषीकः । अनेन टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । पक्षे-ऐषिकः । 'प्रहरणम्' (६।४।६२) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् ।
[काम्पनीकः, काम्पनीकी, काम्पनिकः] 'कपुङ् चलने' (७५७) कप् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः-कम्प् । कम्पते = कम्पनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । कम्पनं प्रहरणमस्य = काम्पनीकः । अनेन टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी । एवम्-काम्पनिकः । 'प्रहरणम्' (६।४।६२) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
_ [आम्भसीकः, आम्भसीकी, आम्भसिकः] अम्भस् । अम्भः प्रहरणोऽस्य(प्रहरणमस्य) = आम्भसीकः । अनेन टीकण्प्र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । एवम्-आम्भसिकः । 'प्रहरणम्' (६।४।६२) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ ।
[दाण्डीकः, दाण्डीकी, दाण्डिकः] दण्डः प्रहरणोऽस्य(प्रहरणमस्य) = दाण्डीकः । अनेन टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । एवम्-दाण्डिकः । 'प्रहरणम्' (६।४।६२) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
नास्तिका-ऽऽस्तिक-दैष्टिकम् ॥ ६।४।६६ ॥ [नास्तिकाऽऽस्तिकदैष्टिकम् ] नास्तिकश्च आस्तिकश्च दैष्टिकश्च = नास्तिकाऽऽस्तिकदैष्टिकम् । निपातनं रूढ्यर्थम् । [नास्तिकः] नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य = नास्तिकः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [331]