________________
३३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
प्रहरणम् ॥ ६।४।६२ ॥ [प्रहरणम् ] प्रहरण सि-अम् ।
[आसिकः] असि । असिः प्रहरणमस्य = आसिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् ।
[प्रासिकः] प्र 'असूच क्षेपणे' (१२२१) अस् । प्रास्यते = प्रासः । 'भावा-ऽकोंः (५।३।१८) घञ्प्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । प्रासः प्रहरणमस्य = प्रासिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[चाक्रिकः] चक्र प्रहरणमस्य = चाक्रिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[मौष्टिकः] मुष्टिः प्रहरणमस्य = मौष्टिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[मौद्गरिकः] मुद्गरः प्रहरणमस्य = मौद्गरिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[मौसलिकः] मुसलः प्रहरणमस्य = मौसलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[धानुष्कः] धनुस् । धनुः प्रहरणमस्य = धानुष्कः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'ऋवर्णोवर्ण०' (७४/७१) इलुक् । 'सो रुः' (२।१।७२) स० → र० । 'नामिनस्तयोः षः' (२।३।८) षत्वम् ।।छ।।
परश्वधाद्वाऽण् ।। ६।४/६३ ।। [परश्वधात्] परश्वध पञ्चमी ङसि । [वा] वा प्रथमा सि । [अण्] अण् प्रथमा सि ।
[पारश्वधः, पारश्वधिकः] पर कृ (१५२९)-मृ (१५३०)-'शृश् हिंसायाम्' (१५३१) शू । परान् शृणातीति परश्वधः । 'परात् श्रो डित्' (उणा० २५५) वधप्र० डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलुक् । परश्वधः प्रहरणमस्य = पारश्वधः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-पारश्वधिकः । 'इकण्' (६।४।१) इत्यनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
शक्ति-यष्टेष्टीकण् ॥ ६।४।६४ ॥ [शक्तियष्टेः ] शक्तिश्च यष्टिश्च = शक्तियष्टि, तस्मात् । [टीकण्] टीकण प्रथमा सि ।
[शाक्तीकः, शाक्तीकी ] शक्तिः प्रहरणमस्य = शाक्तीकः ।अनेन टीकणप्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [330]