________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३२९
[वैष्ठः] विस्थानं(विष्ठानं) = विष्ठा । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० । विष्ठा शीलमस्य = वैष्ठः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[आन्तस्थः] अन्त 'ष्ठां' गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या०सं० वक्ष०(१)/सूत्र(२९) । स्था । अविसर्गान्तो द्रष्टव्यः । अन्ते स्थानम् = अन्तस्था । 'भिदादयः' (५।३।१०८) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अन्तस्था शीलमस्य = आन्तस्थः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् ।
_ [छात्रः] छत्र । छत्रं शीलमस्य = छात्रः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । छत्रशब्देन गुरुकार्येष्ववहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते । उपचारात् शिष्यो हि छत्रवद् गुरुच्छिद्रावरणादिप्रवृत्तश्छात्र इत्युच्यते । अभ्यासापेक्षाऽपि क्रिया शीलमित्युच्यते ।
- [चौरः, चौरी] 'चुरण स्तेये' (१५६८) चुर् । अनित्यो णिच् अत्र नागतः । चोरणं = चुरा । 'भिदादयः' (५।३।१०८) अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० । चुरा शीलोऽस्य (शीलमस्य) = चौरः । अनेन अप्र० → अ । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । स्त्रियाम्-'अणजेयेकण्' (२।४।२०) ङी ।
[तापसः, तापसी] तपः शीलोऽस्य(शीलमस्य) = तापसः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः आ । स्त्रियाम्-'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[कार्मः] कर्मन् मण्ड्यते । कर्म शीलोऽस्य(शीलमस्य) = कार्मः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् ।
विश्वधा] विश्व 'डुधांग्क् धारणे च' (११३९) धा । विश्वं दधाति क्रिया । 'आतो डोऽह्वा-वा-मः' (५।११७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । 'आत्' (२।४।१८) आप्प्र० ।
[पुरोडा] पुरस् 'अट गतौ' (१९४) अट् । पुरोऽटति = पुरोडा । 'अच्' (५।१।४९) अच्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० । क्रिया ।
[विशिका] विशि कायति = विशिका । 'आतो डोऽह्वा०' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । 'आत्' (२।४।१८) आप्प्र० ।
[विशिखा] विशिखा प्रत्योली कथ्यते ।
[चुक्षा] चुक्षिः सौत्रो धातुः-निर्मलीकरणे । चुक्ष् । चुक्षणं = चुक्षा शौचम् । 'अच्' (५।१।४९) अच्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० ।
[चिक्षा] चिक्षिविज्ञाने-चिक्ष् । चिक्षणं = चिक्षा-शिक्षा उच्यते । 'अच्' (५।१।४९) अच्प्र० → अ । 'आत्' (२।४।१८) आप्प्र० ॥छ।।
तूष्णीकः ॥ ६।४।६१ ॥ [ तूष्णीकः ] तूष्णीक प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[तूष्णीकः ] 'तूष तुष्टौ' (४९९) तूष् । तूषन्ति देवा अनेन-तूष्णीम् । 'तूषेरीम् णोऽन्तश्च' (उणा० ९४०) इम्प्र०णोऽन्तश्च → ण् - ईपश्चात् । तूष्णींभावः शीलमस्य । अनेन कप्र० - म्लोपश्च निपात्यते । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [329]