________________
३२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[मौदकिकः] मोदक । मोदकभक्षणं शीलमस्य = मौदकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ताम्बूलिकः] ताम्बूल । ताम्बूलभक्षणं शीलमस्य = ताम्बूलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पारुषिकः] परुष । परुषवचनं शीलमस्य = पारुषिकः । निडरवचन इत्यर्थः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[आक्रोशिकः] आक्रोशवचनं शीलमस्य = आक्रोशिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
अस्थाच्छत्रादेरञ् ॥ ६।४।६० ॥ [अस्थाच्छत्रादेः] अङ्प्रत्ययान्तः स्था(:) = अङ्स्था (:) । स्फुटः कर्मधारयो वा । छत्रं आदिर्यस्य सः = छत्रादिः । अस्थाश्च छत्रादिश्च = अस्थाच्छत्रादि(:), तस्मात् ।
[अञ्] अञ् प्रथमा सि ।
[आस्थः] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या०सं० वक्ष०(१)/सूत्र (२९) । स्था, आपूर्व० । आस्थानम् = आस्था । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० । आस्था शीलमस्य आस्थः । अनेन अप्र० → अ। 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
[सास्थः] स्था, सम्पूर्व० । संस्थानं = संस्था । 'उपसर्गादातः' (५।३।११०) अप्र० २ अ । 'इडेत्-पुसि.' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । संस्था शीलमस्य = सांस्थः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[आवस्थः] स्था, अवपूर्व० । अवस्थानम् = अवस्था । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अवस्था शीलमस्य = आवस्थः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[सामस्थः ] स्था, समपूर्व० । समस्थानं = समस्था । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । समस्था शीलमस्य = सामस्थः । अनेन अप्र० → अ । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[वैयवस्थः] स्था, वि-अवपूर्व० । व्यवस्थानं = व्यवस्था । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । व्यवस्था शीलमस्य = वैयवस्थः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[नैष्ठः ] निष्ठानं = निष्ठा । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० । निष्ठा शीलमस्य = नैष्ठः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
हैमप्रकाशे - अङ् चासौ स्थाश्च ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [328]|