________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३२७
[पाणविकः] पणवः पणववादनं शिल्पमस्य = पाणविकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[ मौरजिकः ] मुरजो मुरजवादनं शिल्पमस्य = मौरजिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[वैणिकः] वीणावादनं शिल्पमस्य = वैणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न भवति । ते के शब्दाः ? व्याकरणकरणादिशिल्पमस्य वैयाकरणिकादयोऽमी । अत एव कुम्भकारादावभिधेये मृदङ्गकरणादिभ्य एव प्रत्ययः, न तु मृदङ्गादिशब्देभ्यः । केषुचिद् ग्रामेषु मृन्मया मृदङ्गा भवन्ति, तेषां कुम्भकारादुत्पत्तिः ।
[मार्दङकरणिकः] मृदङ्गकरणं शिल्पमस्य = मार्दङ्गकरणिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वैणाकरणिकः] वीणाकरणं शिल्पमस्य = वैणाकरणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
मड्डुक-झर्झराद् वाऽण् ॥ ६।४।५८ ।। [मड्डुकझर्झरात् ] मड्डुकश्च झर्झरश्च = मड्डुकझर्झरम्, तस्मात् । [वा] वा प्रथमा सि । [अण्] अण् प्रथमा सि ।
[माड्डुकः, माड्डुकिकः] मड्डुकवादनं शिल्पमस्य = माड्डुकः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-माड्डकिकः । 'शिल्पम्' (६।४।५७) इकण्प्र० → इक। 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[झाझरः, झाझरिकः] झर्झरवादनं शिल्पमस्य = झार्झरः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-झाझरिक इत्यत्र 'शिल्पम्' (६।४।५७) इत्यनेन इकण्प्र० → इक। 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छा।
शीलम् ॥ ६।४।५९ ॥ [शीलम् ] शील सि-अम् । शीलं प्राणिनां स्वभावः । फलनिरपेक्षा प्रवृत्तिरिति यावत् ।
[आपूपिकः] अपूप । अपूपभक्षणं शीलमस्य = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शाष्कुलिकः] शष्कुली । शष्कुलीभक्षणं शीलमस्य = शाष्कुलिकः । अनेन इकण्प्र० → इक । ‘वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [327]