________________
३२६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
किशरादेरिकट् ॥ ६।४।५५ ॥ [किशरादेः] किस(श)रं-किशरो वा आदिर्यस्य सः = किशरादिः, तस्मात् । [इकट] इकट् प्रथमा सि ।।
किशरादयो गन्धद्रव्यविशेषवचनाः । गन्धद्रव्यविशेषं वचन्तीति । 'नन्द्यादिभ्योऽनः' (५।१।५२) अनप्र० । प्रथमा जस् ।
[किशरिकः, किशरिकी स्त्री] किम् कृ (१५२९)-मृ (१५३०)- 'शृश् हिंसायाम्' (१५३१) शू । किमपि शृणाति = किशरः । 'मूलविभुजादयः' (५।१।१४४) निपात्यते । बाहुलकात् लिङ्गव्यवस्था । किस(श)रं किस(श)रो वा पण्यमस्य = किशरिकः । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी ।
[तगरिकः, तगरिकी स्त्री] तगरः पण्यमस्य सः = तगरिकः । अनेन इकट्प्र० → इक | 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
शलालुनो वा ॥ ६।४।५६ ।। [शलालुनः ] शलालु पञ्चमी ङसि । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [वा] वा प्रथमा सि ।
[शलालुकः, शलालुकी, शालालुकी] शलालु(:) पण्यमस्य = शलालुकः । अनेन इकटप्र० → इक । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी । पक्षे 'तदस्य पण्यम्' (६।४।५४) इकण्प्र० → इक् । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'ऋवर्णोवर्ण-दोसिसुस०' (७४/७१) इकस्य इलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
शिल्पम् ॥ ६।४।५७ ॥ [शिल्पम् ] शिल्प सि-अम् । तदस्येति वर्त्तते । शिल्पं-कौशलं-विज्ञानप्रकर्षः । अनेन शिल्पेन नृत्तेन अङ्गविन्यासादिक्रिया विशेषो लक्ष्यते ।
[नार्त्तिकः] नृत्तं शिल्पमस्य = नार्त्तिकः । अनेन इकण्प्र० → इक । 'वृद्धि:०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[गैतिकः] गीतं शिल्पमस्य = गैतिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।।
[वादनिकः] वादनं शिल्पमस्य = वादनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[मार्दङ्गिकः] मृदिषु मर्दने ? 'मृदश् क्षोदे' (१५५०) मृद् । मृद्यते भो(भा)जनमत्र । 'विडि-विलि-कुरि-मृदिपिशिभ्यः कित्' (उणा० १०१) किद् अङ्गप्र० । मृदङ्गो मृदङ्गवादनं शिल्पमस्य = मार्दङ्गिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४१) वृद्धिः आर् । 'अवर्णवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [326]