________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३२५
[वैशस्त्रम् ] 'शसू हिंसायाम्' (५४९) शस्, विपूर्व० । विशसति । 'णक-तृचौ' (५।।४८) तृचप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । विशसितुर्धर्म्य = वैशस्त्रम् । अनेन अण्प्र० → अ - इटलुक् च । 'वृद्धि: स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'इवर्णादेरस्वे०' (१।२।२१) र० ॥छ।।
अवक्रये ॥ ६।४।५३ ।। अवक्रीयते-स्वीक्रियते येनेच्छानियम(मि)तेन द्रव्येण कियन्तमपि कालमापणादि सोऽवक्रयः ।
'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यते इति भोगो गृहादिः । निर्विश्यतेऽनेन = निर्वेश उपभोगः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए, तस्मिन् ।
[आपणिकः] आपणस्यावक्रयः = आपणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[शौल्कशालिकः] शुल्कशालाया अवक्रयः = शौल्कशालिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[आतरिकः] आ एत्य तरन्त्यस्मिन् = आतरः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । 'नामिनो०' (४।३।१) गु० अर् । आतरस्यावक्रयः = आतरिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[गौल्मिकः] गुल्मस्य-शुल्कस्थानस्यावक्रयः = गौल्मिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवतीत्ययमवक्रयो धाद् भिद्यते ॥छ।।
तदस्य पण्यम् ।। ६।४५४ ॥ [तद् ] तद् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [अस्य] अस्य सप्तमी ङि । सूत्रत्वाल्लुप् । [पण्यम् ] पण्य प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
[आपूपिकः] 'अशश् भोजने' (१५५८) अश् । अश्यन्ते-भक्ष्यन्ते पर्वणि जनैरिति अपूपाः । 'अश ऊपः पश्च' (उणा० ३१२) ऊपप्र० → श० → पदेशश्च । अपूपाः पण्यमस्य = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
पण्यार्थो वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः ।
[शाष्कुलिकः] शष्कुल्यः पण्यमस्य = शाष्कुलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[मौदकिकः] मोदकाः पण्यमस्य = मौदकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[लावणिकः] लवणं पण्यमस्य = लावणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [325]