________________
३२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अण्] अण् प्रथमा सि ।
[नारम्, नारी] नृ । नुर्धर्म्य = नारम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आर् । सिअम् । स्त्रियाम्-नारी । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[मात्रम् ] मातृ । मातुर्धर्म्यं = मात्रम् । अनेन अण्प्र० → अ । 'इवर्णादेरस्वे०' (१।२।२१) र० । सि-अम् ।
[ पैत्रम् ] पितृ । पितुर्धर्म्य = पैत्रम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'इवर्णादेरस्वे०' (१।२।२१) र० । सि-अम् ।।
[शास्त्रम् ] शास्तु । शास्तुर्धर्म्यं = शास्त्रम् । अनेन अण्प्र० → अ । 'इवर्णादेरस्वे०' (१।२।२१) र० । सि-अम् ।
[वैकत्रम् ] विकर्तुः-विकारापन्नस्य धर्म्यं = वैकत्रम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'इवर्णादेरस्वे०' (१।२।२१) र० । सि-अम् ।
[होत्रम् ] होतुर्धर्म्य = हौत्रम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'इवर्णादेरस्वे०' (१।२।२१) र० । सि-अम् ।
[पौत्रम ] पोतर्धन॑ = पौत्रम् । अनेन अणप्र० २ अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'इवर्णादेरस्वे.' (१।२।२१) र० । सि-अम् ।।
[औद्गात्रम् ] उद्गातृ । उद्गातुर्धर्म्यम् = औद्गात्रम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः औ । 'इवर्णादेरस्वे०' (१।२।२१) र० । सि-अम् ।
नरादि-[नारम्, स्त्रियां-नारी] नर । नरस्य धर्म्य = नारम् । नरस्य धा वृत्तिः = नारी । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
नृशब्देनैव रूपद्वये सिद्धे नरशब्दादिकण् 'षष्ठ्या धर्म्य' (६।४५०) इत्यनेन मा भूदिति तद्ग्रहणम् ।
[माहिषम् ] महिषी । महिष्या धर्म्यं = माहिषम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् । [ होतृयजमानः ] होतृ च यजमानश्च = होतृयजमानः ॥छ।।
विभाजयितृ-विशसितुर्णीङ्लुक् च ॥ ६।४।५२ ॥ [विभाजयितृविशसितुः] विभाजयिता च विशसिता च = विभाजयितृविशसित, तस्मात् । 'ऋतो डुर्' (१।४।३७) ङसि० → डुर्० → उ० ।
[णीङ्लुक् ] णिश्च इट् च । णीटो लुक् = णीड्लुक् । प्रथमा सि । [च] च प्रथमा सि ।
[वैभाजित्रम् ] विपूर्व० 'भजण् विश्राणने' (१७३३) भज् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । विभाजयतीति विभाजयिता । 'णक-तृचौ' (५।११४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । विभाजयितुर्धर्म्य = वैभाजित्रम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ । अनेनैव णिच्लुग् । णिलुक्स्थानित्वात् 'ञ्णिति' (४।३।५०) वृद्धिः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [324]