________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
[ सेनायाः] सेना पञ्चमी ङसि ।
[वा ] वा प्रथमा सि 'अव्ययस्य' (३२७) सिलुप् ।
[ सैन्यः, सैनिकः] सेनां समवैति = सैन्यः । अनेन ण्यप्र०य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । पक्षे सैनिकः । 'समूहार्थात् समवेते (६।३।४६ ) इकण्प्र०
।
इक ।
=
[ सैन्यम् ] सेनैव सैन्यम् । स्वार्थे 'भेषजादिभ्यष्ट्यण्' (७/२/१६४) ट्यण्प्र० य वृद्धिः स्वरे०' (७४া१)
वृद्धिः ऐ । 'अवर्णैवर्णस्य' (७|४|६८) आलुक्
=
सेनाया वा ॥ ६।४।४८ ॥
[ धर्माधर्मात् ] धर्मश्च अधर्मश्च = धर्माऽधर्मम्, तस्मात् ।
[ चरति ] चरतीति चरत् तस्मिन् ।
चरतिस्तात्पर्येणानुष्ठानि(ने) वर्त्तते ।
[ धार्मिकः ] धर्म चरति धार्मिकः । अनेन इकण्प्र० इक वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णैवर्णस्य' (७।४।६८) अलुक् ।
=
धर्मा - ऽधर्माच्चरति ॥ ६ ४ ४९ ॥
[ आधर्मिकः] अधर्म चरति आधर्मिकः । अनेन इकण्प्र० इक 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ||||
=
३२३
षष्ठ्या ध || ६|४|५० ॥
[ षष्ठ्याः ] षष्ठी पञ्चमी ङसि ।
[ धयें] धर्म । धर्मादनपेतं धर्म्यम् । हृद्य-पद्य तुल्य-मूल्य- वश्य-पथ्य-वयस्य- धेनुष्या-गार्हपत्य जन्य-धर्म्यम्' (१।११) यप्र० । 'अवर्णेवर्णस्य' (७२४।६८) अलुक् । तस्मिन् ।
धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् ।
।
[ शौल्कशालिकम् ] शुल्कशालाया धर्म्यं = शौल्कशालिकम् । अनेन इकण्प्र० । इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्ष्णिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
=
[ गौल्मिकम् ] गुल्मा: स्थानाधिकृताः केतक्यादयो वा । गलन्ति काष्ठप्रधानतां रुक्मेति गुल्माः केतक्यादयः, ते हि का सारा भवन्ति । गुल्मस्य शुल्कस्थानस्य धर्म्यं गौल्मिकम् । अनेन इकण्प्र० वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ।
इक वृद्धिः स्वरे०' (७|४|१)
[ आतरिकम् ] आ 'तृ प्लवन-तरणयो:' (२७) तृ । आ एत्य तरन्त्यस्मिन् = आतरम् । 'पुन्नाग्नि घः' (५|३|१३०) चप्र० अ 'नामिनो गुणोऽक्ङिति (४|३|१) गु० अर् आतरस्य धर्म्यम् = आतरिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य (७।४।६८) अलुक् । सि-अम् ॥छ ।
ऋनरादेरन् || ६|४|५१ ॥
[ ऋन्नरादेः ] ऋच्च नरादिश्च ऋनरादिस्तस्मात् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [323]