________________
३२२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[कौक्कुटिकः] कुक्कुटी । कुक्कुटीं पश्यति = कौक्कुटिकः । अनेन इकण्प्र० → इक । वृद्धिः औ निपात्यते(न्ते) च इकण्प्रत्ययान्तानि अमूनि उदाहरणानि । कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन च देशस्याल्पता ज्ञाप्यते । यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य पुरो युगमात्रदेशप्रेक्षी गच्छति स एवमुच्यते ।
१. यो वा तथाविधमात्मानमतथाविधोऽपि दर्शयति सोऽपि कौक्कुटिकः । २. दाम्भिकस्य चेष्टा वा मिथ्याशौचादिः कुक्कुटी, तामाचरन् कौक्कुटिकः । ३. हृदयावयवो वा कुक्कुटी, तां पश्यति कौक्कुटिको भिक्षुः । निभृत इत्यर्थः । ४. तदेतत्सर्वं निपातनाल्लभ्यते ॥छ।।
समूहार्थात् समवेते ।। ६।४।४६ ।। [समूहार्थात् ] समूहेऽर्थे ये सः = समूहार्थः, तस्मात् = समूहार्थात् । पञ्चमी ङसि ।
[समवेते] सम्-अव इंण्क् गतौ (१०७५) इ । समवैति स्म = समवेतस्तस्मिन् । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'अवर्णस्ये०' (१।२।६) ए ।
[सामूहिकः] समूह आत्मा-स्वभावो यस्यार्थस्य स तदात्मा, तस्य भावस्तादात्म्यम्, तस्मात् । तदैकदेशीभूतेऽस्य पर्यायोऽग्रे समूहैकदेशीभूते । सम् 'ऊहि वितर्के' (८७०) ऊह । समूहनं = समूहः । 'भावा-ऽकोंः ' (५।३।१८) घप्र०
→ अ । समूहं समवैति = सामूहिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[सामाजिकः] समाजं समवैति = सामाजिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[सांसदिकः] सम् 'षद्लूं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) सद् । सम्यक् सीदन्ति जना अस्यामिति संसद् । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । संसदं समवैति = सांसदिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ ।
[सामवायिकः] समवायं समवैति = सामवायिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गौष्ठिकः] गोष्ठी समवैति = गौष्ठिकः । अनेन इकण्प्र० + इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । तदेकदेशीभावमनुभवन्नेवमुच्यते ॥छ।।
पर्षदो ण्यः ॥ ६।४।४७ ॥ [ पर्षदः] पर्षद् पञ्चमी ङसि । [ण्यः] ण्य प्रथमा सि । [पार्षद्यः ] पर्षदं समवैति = पार्षद्यः । अनेन ण्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । [पारिषद्यः] परिषदं समवैति = पारिषद्यः । अनेन ण्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [322]