________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३२१
[ नैपुणिकः] निपुणं ब्रूते = नैपुणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
क्रियाविशेषणादयमिष्यते, तेनेह न भवति - प्रभूतमर्थं ब्रूते । क्वचिदक्रियाविशेषणादपि
[सौवर्गमनिकः] स्वर्गमन मण्ड्यते । स्वर्गमनं ब्रूते = सौवर्गमनिकः । अनेन इकणप्र० → इक । 'लोकात्' (१।१।३) स् पाठउ विश्लेषियइ । 'द्वारादेः' (७४।६) औ।
[स्वागतिकः] स्वागत । स्वागतं ब्रूते = स्वागतिकः । वृद्धिः । औकारायने 'द्वारादेः' (७४/६) इत्यस्य प्राप्तेः' 'न ञ-स्वङ्गादेः' (७।४।९) निषेधः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सौवस्तिकः] स्वस्ति । स्वस्तीति ब्रूते = सौवस्तिकः । व्युत्पत्तिपक्षे 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) - अव्युत्पत्तौ तु 'द्वारादेः' (७४/६) औत् । अनेन इकण्प्र० → इक । 'द्वारादेः (७।४।६) औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।
माशब्द इत्यादिभ्यः ॥ ६।४।४४ ॥ [माशब्द इत्यादिभ्यः] माशब्द इति आदिर्येषां ते = माशब्द इत्यादयः, तेभ्यः = माशब्द इत्यादिभ्यः । पञ्चमी भ्यस् ।
[माशब्दिकः] मा शब्द इति ब्रूते = माशब्दिकः । अनेन इकणप्र० + इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । माशब्दः क्रियतामिति ब्रूते इत्यर्थः ।
[कार्यशब्दिकः] कार्यः शब्द इति ब्रूते = कार्यशब्दिकः ।
[नैत्यशब्दिकः] नित्य(:) शब्द इति ब्रूते = नैत्यशब्दिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । वाक्यात् प्रत्ययविधानार्थं वचनम् ॥छ।।
शाब्दिक-दादरिक-लालाटिक-कौक्कुटिकम् ॥ ६।४।४५ ॥ [शाब्दिकदार्दरिकलालाटिककौक्कुटिकम् ] शाब्दिकश्च दादरिकश्च ल(ला)लाटिकश्च कौक्कुटिकश्च = शाब्दिकदादरिकलालाटिककौक्कुटिकम् ।
[शाब्दिकः] शब्दं करोति = शाब्दिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । यः कश्चिच्छब्दं करोति न स सर्वः शाब्दिकः ? किं तर्हि यः शब्दं जानाति वैयाकरणः स एवाविनष्टं शब्दमुच्चारयन् शाब्दिक उच्यते ।
[दादरिकः] दर्दर 'दृश् विदारणे' (१५३५) दृ । दीर्यते लकुटादिना इति दर्दरः । 'ऋतष्टित्' (उणा० ९) अप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । येन अप्र० तेनैव द्वित्वं च । घटं वादित्रं वा करोति = दादरिकः । अनेन इकण्प्र० → इक । वृद्धिः । दर्दरो घटो वादिनं च, तत्र वादिनं कुर्वन्ति(न्ने)वमुच्यते ।
[लालाटिकः] ललाटं पश्यति = लालाटिक(कः) । अनेन इकण्प्र० → इक । 'वृद्धि: स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । ललाटदर्शनेन दूरावस्थानं लक्ष्यते, तेन च कार्येष्वनुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति न स्वामिकार्येषूपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपप्रसादलक्षणाय यः पश्यति स लालाटिक उच्यते । 卐 उणादौ- दीर्यते भिद्यतेऽनेन श्रोत्रमिति दर्दरः - वाद्यविशेषः पर्वतश्च ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [321]