________________
३२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
पश्चात्यनुपदात् ॥ ६।४।४१ ।। [पश्चाति] पश्चात् सप्तमी ङि । [अनुपदात् ] अनुपद पञ्चमी ङसि ।
[आनुपदिकः] अनु पदस्य पश्चात् = अनुपदम् । अनुपदं धावति = आनुपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रत्यासत्त्या धावतीत्यर्थः । प्रत्यासन्नो भूत्वा धावति ।
[अनुपदं धावति] पदस्य समीपम् = अनुपदम् । अम् । 'धावूग् गति-शुद्ध्योः ' (९२०) धाव् । वर्तमाना तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४/७१) शव् । अत्र 'दैर्येऽनुः' (३।१।३४) - 'समीपे' (३।१।३५) - 'प्रात्यव - परि०' (३।१।४७) इत्यादिना वा समासः ॥छ।
सुस्नातादिभ्यः पृच्छति ॥ ६।४।४२ ॥ [सुस्नातादिभ्यः] सुस्नात आदिर्येषां ते = सुस्नातादयः, तेभ्यः । [पृच्छति ] पृच्छतीति पृच्छत्, तस्मिन् ।
[सौस्नातिकः] सु 'ष्णांक शौचे' (१०६४) ष्णा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्ना । सुस्नाति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । सुस्नातं पृच्छति = सौस्नातिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ ।
[सौखरात्रिकः] सुखा चासौ रात्रिश्च = सुखरात्रिः । 'परतः स्त्री०' (३।२।४९) पुम्वत् । सुखरात्रिं पृच्छति = सौखरात्रिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः औ।
[सौखशायनिकः] सुखं च तत् शयनं च = सुखशयनम् । सुखशयनं पृच्छति = सौखशायनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः औ । अनुशतिकाद्वा उभयपदवृद्धिः ।
[सौखशाय्यिकः] सुखशय्यां पृच्छति = सौखशाय्यिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । अनुशतिकाद्वा उभयपदवृद्धिः ॥छ।।
प्रभूतादिभ्यो ब्रुवति ॥ ६।४।४३ ॥ [प्रभूतादिभ्यः ] प्रभूत आदिर्येषां ते = प्रभूतादयः, तेभ्यः = प्रभूतादिभ्यः । पञ्चमी भ्यस् । [ब्रुवति] ब्रुवतीति ब्रुवत्, तस्मिन् ।
[प्राभूतिकः] प्रभूत । प्रभूतं ब्रूते = प्राभूतिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पार्याप्तिकः] पर्याप्तं-निषिद्धं ब्रूते = पार्याप्तिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वैपुलिकः] विपुलं ब्रुते = वैपुलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[वैचित्रिकः] विचित्रं ब्रूते = वैचित्रिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । ॐ मध्यमवृत्तौ-सुखा चासौ रात्रिश्च = सुखरात्रः । 'संख्यातैक०' (७।३।११९) अत्समासान्तः । सुखरात्रं पृच्छति ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[320]