________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
[ भ्रातृजायिकः ] भ्रातुर्जाया = भ्रातृजाया वृद्धिः । ‘अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
। भ्रातृजायां गच्छति = भ्रातृजायिकः । अनेन इकण्प्र० इक । प्रथमा सि । सो रु: ' (२१।७२) स०र० ॥ छा । प्रतिपथादिकक्ष ।। ६।४।३९ ।।
३१९
[ प्रतिपथात् ] प्रतिपथ पञ्चमी ङसि ।
[ इकश्च ] इक प्रथमा सि । च प्रथमा सि ।
[ प्रतिपथिकः प्रातिपथिको वा ] प्रतिपथिन् मण्ड्यते । पन्थानं २ प्रति = प्रतिपथम् । यद्वा पथोऽभिमुख्यमिति वा = प्रतिपथम् । ऋक्पू:- पथ्यपोऽत्' (७७३/७६) अत्समासान्तः अ 'नोऽपदस्य०' (७२४/६१) इन्लुक् । प्रतिपथं गच्छति प्रतिपथिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् एवम् प्रातिपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रुः' (२१/७२ ) स०र० ॥छ।
=
माथोत्तरपद-पदव्याक्रन्दाद् धावति ॥ ६४४० ॥
[ माथोत्तरपदपदव्याक्रन्दात् ] माथ उत्तरपदं यस्य सः = माथोत्तरपदः, माथोत्तरपदश्च पदवी च आक्रन्दश्च = माथोत्तरपदपदव्याक्रन्दम्, तस्मात् ।
[ धावति ] धावतीति धावन्, तस्मिन् ।
[ दाण्डमाथिकः ] मथन्ति कर्द्दमादिकमनेनास्मिन्निति वा । 'व्यञ्जनाद् घञ्' (५|३|१३२) घञ्प्र० अ । 'ञ्णिति' दण्डमाथ: । दण्डमाथे ( थं) धावति दाण्डमाधिकः अनेन इकण्प्र० → । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
(४|३|५०) उपान्त्यवृद्धिः दण्ड इव माथः इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ
=
[ शौक्लमाथिकः ] शुक्ल इव माथ: इक । 'वृद्धिः स्वरे०' (७४१) वृद्धिः औ माथशब्दः पथिपर्यायः ।
=
शुक्लमाथ: । शुक्लमाथं धावति शौक्लमाथिकः । अनेन इकण्प्र०→ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
=
[ दण्डमाथ: ] दण्ड इव माथः दण्डमाथ:- ऋजुमार्गः । 'उपमानं सामान्यैः' (३|१|१०१ ) एवेति नियमात् अप्राप्तोऽपि मयूरव्यंसकादित्वात् समासः । दण्डप्रधानो माथः । मयूरव्यंसकादित्वात् 'नाम नाम्नैकार्थ्ये समासो० ' ( ३|१|१८) इति अनेन वा समासः ।
[पादविकः] पदवीति मण्ड्यते । पाद 'बेंगू तन्तुसन्ताने' (९९२) वे 'आत् सन्ध्यक्षरस्य (४/२/१) वा । पादाभ्यां वीयते = पदवी । 'नी-वी - प्रहृभ्यो डित्' (उणा० ६१६) डिद् इप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अत एव सूत्रनिर्देशात् पदवीत्यत्र पादस्य पद आदेश: । 'इतोऽक्त्यर्थात् ' (२|४| ३२ ) ङी । पदवीं धावति = पादविकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् ।
[ आक्रन्दिकः ] आ कदुङ् (१००६) - 'क्रदुङ् वैक्लव्ये' (१००७) क्रद् । 'उदितः स्वरा०' (४|४|९८ ) नोऽन्तः । आक्रन्दन्ति (न्ते) यत्र स देशः = आक्रन्दः । आक्रन्द्यते वा । आक्रन्द आर्त्तायनं मयि० । आर्तेरय्यते आश्रीयते यत् | 'भुजि - पत्यादिभ्यः कर्मा - ऽपादाने (५|३|१२८) अनप्र० अन आत्तयनं शरणमुच्यते । आक्रन्दं धावति = आक्रन्दिकः । अनेन इकण्प्र० इक । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रुः' (२१/७२ ) स०र० ॥छ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [319]