________________
३१८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पौर्वपदिकः] पूर्वं च तत् पदं च = पूर्वपदम् । पूर्वपदं गृह्णाति = पौर्वपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[औत्तरपदिकः] उत्तरं च तत् पदं च = उत्तरपदम् । उत्तरपदं गृह्णाति = औत्तरपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आदिपदिकः] आदौ पदम् = आदिपदम् । आदिपदं गृह्णाति = आदिपदिकः । अनेन इकण्प्र० → इक ।
[आन्तपदिकः] अन्तं पदम् = अन्तपदम् । अन्तपदं गृह्णाति = आन्तपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[लालामिकः] 'ललण ग्रहणे' ( ) लल् । अनित्यो णिच् । लल्यते = ललः । 'स्थादिभ्यः कः' (५।३।८२) कप्र० → अ० । 'अम गतौ' (३९२) अम् । ललममति-प्राप्नोति = ललामः । 'अच्' (५।१।४९) अच्प्र० → अ । 'समानानां०' (१।२।१) दीर्घः । ललामं-प्रधानं गृह्णाति = लालामिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[प्रातिकण्ठिकः] कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । 'योग्यता-वीप्सा-ऽर्थानतिवृत्ति-सादृश्ये' (३।१।४०) इति समासः । प्रतिकण्ठं गृह्णाति = प्रातिकण्ठिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
अव्ययीभावसमासश्रयणादिह न भवति । व्याख्यानतो विशेषप्रतिपत्तिः । प्रतिगतः कण्ठं = प्रतिकण्ठः, तं गृह्णाति । 'प्रात्यव-परि-निरादयो०' (३।१।४७) समासः ।
[बहुपदं गृह्णाति ] ईषदपरिसमाप्तः पदः = बहुपदस्तं गृह्णाति ॥छ।।
परदारादिभ्यो गच्छति ॥ ६।४।३८ ॥
[परदारादिभ्यः] परदार(रा) आदिर्येषां ते = परदारादयः, तेभ्यः = परदारादिभ्यः । पञ्चमी भ्यस् । [गच्छति ] गच्छतीति गच्छत्, तस्मिन् ।
[पारदारिकः] परेषां दाराः = परदाराः । यद्वा परे च ते दाराश्च = परदाराः । परदारान् गच्छति = पारदारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०।
[गौरुदारिकः] गुरोर्दाराः = गुरुदाराः । गुरुदारान् गच्छति = गौरुदारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। _ [गौरुतल्पिकः] गुरूणां तल्पं-शय्या = गुरुतल्पः । गुरुतल्पं गृह्णाति (गच्छति) = गौरुतल्पिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[साभर्तृकिकः] सह भर्ना गच्छति = सभर्तृकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० → क । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सहस्य सभावः । 'आत्' (२।४।१८) आप्प्र० → आ । सभर्तृकां गच्छति = साभर्तृकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[318]