________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३१७
[द्वैगुणिकः] द्विगुणं गृह्णाति = द्वैगुणिकः । अनेन इकण्प्र० → इक। वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[त्रैगुणिकः ] त्रिगुणं गृह्णाति = त्रैगुणिकः । अनेन इकण्प्र० → इक। वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वाधुषिकः] प्रयुक्त-धन । 'पुषश् पुष्टौ' (१५६४) पुष् । प्रयुक्तं धनं पुष्णाति = प्रयुक्तधनपोषी, तस्य पृषोदरादित्वात् वृधुषी शब्द आदेशः । यद्वा 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्द्धते द्रव्यादिकं दिनं प्रति इति वृधुषी । 'अपुष-धनुषादयः' (उणा० ५५९) उषप्र० । 'गौरादिभ्यो०' (२।४।१९) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । वृधुर्षी वृद्धि गृह्णाति-पर्यायोऽयं कालान्तरमित्यर्थः = वाधुषिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आर् । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । अल्पं दत्त्वा प्रभूतं गृह्णन् अन्यायकारी निन्द्यते ॥छ।।
कुसीदादिकट् ॥ ६।४।३५ ॥ [कुसीदात्] कुसीद पञ्चमी ङसि । [इकट] इकट् प्रथमा सि ।
[कुसीदिकः कुसीदिकी] कुसिः सौत्रो धातुः-कुस् । कुसतीति कुसीदम् । 'कुसेरिदेदौ' (उणा० २४१) कुसीदनिपातः । कुसीदं वृद्धिस्तदर्थमपि द्रव्यं कुसीदम्, तद् गृह्णाति = कुसीदिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' ((२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । टकारो ङ्यर्थः ॥छ।
दशैकादशादिकश्च ।। ६।४।३६ ॥ [ दशैकादशात् ] दशैकादश अस्मादखण्डात् पञ्चमी ङसि । [इकश्च] इक प्रथमा सि । च प्रथमा सि ।
[दशैकादशिकः, दशैकादशिका, दशैकादशिकी] दशभिरेकादश = दशैकादश, तान् गृह्णाति = दशैकादशिकः । अनेन इकप्र० । प्रथमा सि । 'सो रुः' ((२।१।७२) स० → र० । अन्यत्र 'आत्' (२।४।१८) आप्प्र० → आ । एवम्दशैकादशिकी । अनेनैव इकटप्र० → इक । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम्, दशैकादशान् इत्यत्र ॥छ।।
अर्थ-पद-पदोत्तरपद-ललाम-प्रतिकण्ठात् ॥ ६।४।३७ ।। [अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ] पद उत्तरपदं यस्य सः = पदोत्तरपदः । अर्थश्च पदश्च पदोत्तरपदश्च ललामश्च प्रतिकण्ठश्च(प्रतिकण्ठं च) = अर्थपदपदोत्तरपदललामप्रतिकण्ठम्, तस्मात् ।
गृह्यं(गये) इति निवृत्तम्, असंभवात् ।
[आर्थिकः] अर्थं गृह्णाति = आर्थिकः । अनेन इकण्प्र० - इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।।
[पादिकः] पदं गृह्णाति = पादिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [317]