________________
३१६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[शाफरिकः] शफरान् हन्ति = शाफरिकः । [शाकुलिकः] शकुलं हन्ति = शाकुलिकः । [हारिणिकः] हरिणान् हन्ति = हारिणिकः । [सौकरिकः] सूकरान् हन्ति = सौकरिकः ।
[नैयङ्कुकः] न्यङ्कु । न्यड्कून् हन्ति = नैयङ्कुकः । सर्वत्र अनेन इकण्प्र० → इक । 'लोकात्' (११३) न् पाठउ विश्लेषियइ । 'न्यङ्कोवा' (७।४।८) यकारस्य प्राग् ऐकारः । 'ऋवर्णावर्ण०' (७।४/७१) इकणः इकारस्य लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।
परिपन्थात् तिष्ठति च ॥ ६।४।३२ ॥ [परिपन्थात् ] परिपन्थ पञ्चमी ङसि । [तिष्ठति ] तिष्ठतीति तिष्ठत्, तस्मिन् । [च] च प्रथमा सि ।
[पारिपन्थिकश्चौरः] परि-पन्थिन् मण्ड्यते । पथः परि = परिपथम् । परिशब्दो वर्जनार्थः तदा 'पर्यपाभ्यां वज्र्ये' (२।२।७१) इति पञ्चमी । 'पर्यपा-ऽऽङ् बहिरच् पञ्चम्या' (३।१।३२) समासः । यदा तु परितः सर्वतः पन्थानमिति सर्वतोऽर्थः परि तदा 'सर्वोभया-ऽभि-परिणा तसा' (२।२।३५) द्वितीया । सूत्रसामर्थ्यादव्ययीभावः । 'ऋक्-पू:-पथ्यपोऽत्' (७३७६) अत्समासान्तः → अ । 'नोऽपदस्य०' (७४।६१) इन्लुक् । अत एव सूत्रनिर्देशात् परिपथशब्दस्य इकणोऽन्यत्रापि वा परिपन्थादेशः । 'क्रियाविशेषणात्' (२।२।४१) अम् । परिपन्थं तिष्ठति हन्ति वा = पारिपन्थिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । चौरः ।
अन्यत्र परिपन्थं गच्छतीत्याद्येव भवति ॥छ।।
परिपथात् ॥ ६।४।३३ ॥ [परिपथात् ] परिपथ पञ्चमी ङसि ।
[पारिपथिकः] परिपथिन् मांडणीयइ । परि-वर्जने सर्वतोभावे वा । पथः परि = परिपथ:(थम् ) । 'पर्यपा-ऽऽङ् बहिरच् पञ्चम्या' (३।१।३२) इति समासः । परितः सर्वतः पन्थानं वा = परिपथम् । सूत्रसामर्थ्यादव्ययीभावः । परिगतं पन्थाः = परिपथः इति वा तत्पुरुषः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) इन्लुक् । परिपन्थं (थं) तिष्ठति = पारिपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' ((२।१।७२) स० → र० । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः ॥छ।
अवृद्धेर्गृह्णति गर्ने ॥ ६।४।३४ ॥ [अवृद्धेः] न वृद्धिरवृद्धिस्तस्मात् । 'नजत्' (३।२।१२५) न० → अ० । [गृह्णति ] गृह्णातीति गृह्णत्, तस्मिन् । [गयें] गर्दा सप्तमी ङि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[316]