________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३३९
चन्द्रायणं च चरति ॥ ६।४।८२ ।।
[चन्द्रायणम् ] चन्द्रायणम् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [च] च प्रथमा सि । [चरति ] चरति सप्तमी ङि । सूत्रत्वाल्लुप् ।
[चान्द्रायणिकः] चन्द्र इवाचरति । 'क्यङ् (३।४।२६) क्यङ्प्र० → य । चन्द्रायते = चन्द्रायणम् । 'नन्द्यादिभ्योऽनः' (५।१५२) अनप्र० । 'अतः' (४।३।८२) अलोपः । 'र-घुवर्णान्नो ण०' (२।३।६३) न० →ण० । चन्द्रायणं चरति = चान्द्रायणिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गौदानिकः] गोदानं चरति = गौदानिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आदित्यवतिकः] आदित्यव्रतं चरति = आदित्यव्रतिकः । आदित्यव्रतसंज्ञा ऋचः, तासामध्ययनं ब्रह्मचर्य, तेन अधीयते इत्यर्थः ।
[माहानाम्निकः] महत् नाम यस्याम् । 'नाम्नि' (२।४।१२) ङी । 'अनो वा' (२।४।११) ङी । 'ई-ङौ वा' (२।१।१०९) अलुक् । महानाम्न्यो नाम ऋचस्तत्साहचर्यात्तासां व्रतमपि महानाम्न्यः । महानाम्नीव्रतं चरति = माहानाम्निकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । 'तद्धिताऽककोपान्त्य०' (३।२।५४) इत्यादिद्वारेण पुंवन्निषेधः ॥छा।
देवव्रतादीन् डिन् ॥ ६।४।८३ ॥ [ देवव्रतादीन् ] देवानां व्रतं = देवव्रतम् । देवव्रतमादिर्येषां ते = देवव्रतादयः, तान् । [डिन् ] डिन् प्रथमा सि ।।
[देवव्रती] देवव्रतं चरति = देवव्रती । अनेन डिन्प्र० → इन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घझ्याब्' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[तिलव्रती] तिलव्रतं चरति = तिलव्रती । अनेन डिन्प्र० → इन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अवान्तरदीक्षी] अवगतमन्तरं यस्या दीक्षायाः सा = अवान्तरदीक्षा, तां चरति = अवान्तरदीक्षी । अनेन डिन्प्र० → इन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । प्रथमा सि । 'इन्-हन्' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।।
[महाव्रती] महच्च तद् व्रतं च = महाव्रतम् । 'जातीयैकार्थेऽच्वेः' (३।२।७०) डा० → आ० । 'डित्यन्त्यस्वरादेः' (२२१२११४) अल्लुक् । महाव्रतं चरति = महाव्रती । अनेन डिन्प्र० → इन् । 'डित्यन्त्य०' (२।१।११४) अलुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।।
डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ॥ ६।४।८४ ॥ [डकश्च] डक प्रथमा सि । 'सो रुः' (२।१७२) स० कर०। च प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [339]