________________
३४०
[ अष्टाचत्वारिंशतम् ] अष्टाचत्वारिंशतम् । पञ्चमी ङसि सूत्रत्वाल्लुप् ।
[ वर्षाणाम् ] वर्षां षष्ठी आम 'हुस्वाऽऽपक्ष (१।४।३२) आम्नाम्० ।
[ अष्टाचत्वारिंशकः, अष्टाचत्वारिंशी] अष्टौ च चत्वारिंशच (च्च) = अष्टाचत्वारिंशत् । चत्वारिंशदादौ वा' (३।२।९३) अष्टन्शब्दस्य अष्टादेशः । प्रतिवेदं द्वादशवर्षब्रह्मचर्यक्रियाविधिः । अष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टाचत्वारिंशत्, तच्चरति । अनेन डकप्र० अक-डिन्प्र०इन् । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् प्रथमा सि । 'इन् हन्-पूषाऽर्यम्णः शिस्यो:' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्न: ' (२।१।९१) नलुक्
॥छ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
चातुर्मास्यं तौ यलुक् च ॥ ६४८५ ॥
[ चातुर्मास्यम् ] चातुर्मास्य द्वितीया अम् । 'अतः स्यमोऽम् (१।४।५७) अम् ।
[ तौ ] तद् । औ । ‘आ द्वेरः' (२|१|४१) द० सन्ध्यक्षरैः' (१।२।१२) औ ।
अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'ऐदौत्
[ यलुक् ] यस्य लुक्यलुक्। प्रथमा सि ।
=
[च] च प्रथमा सि ।
[ चातुर्मासकः, चातुर्मासी] चतुर्मास । चतुर्षु मासेषु भवानि चातुर्मास्यानि । 'यज्ञे ञ्यः' (६।३।१३४) ञ्यप्रय वृद्धिः स्वरेष्वादेर्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४६८) अलुक् । चातुर्मास्यानि नाम यज्ञाः तत्सहचरितानि व्रतानि = | चातुर्मास्यानि तानि चरति चातुर्मासकः, चातुर्मासी अनेन डकप्र० अक डिन्प्र० इन् - यलोपश्च । प्रथमा सि । 'इन्- हन्०' (१।४।८७) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'नाम्नो नोऽनहून ' (२२११९१) नलुक् ॥
=
=
क्रोश-योजनपूर्वाच्छताद् योजनाच्चाऽभिगमार्हे ॥ ६४८६ ॥
[क्रोशयोजनपूर्वात् ] क्रोशच योजनं च- क्रोशयोजने । क्रोशयोजने पूर्वे यस्य सः = क्रोशयोजनपूर्वस्तस्मात् । [शतात् ] शत पञ्चमी इसि ।
[ योजनात् ] योजन पञ्चमी ङसि ।
[च] च प्रथमा सि ।
[ अभिगमाहें] अभिगम 'अहं पूजायाम्' (५६४ ) अहं । अभिगममर्हति = अभिगमार्हस्तस्मिन् । 'अर्होऽच्' (५/११११) अच्प्र० → अ ।
[ कौशशतिको मुनिः ] क्रोशशत । क्रोशशतादभिगमनमर्हति = क्रौशशतिको मुनिः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ 'अवर्णेवर्णस्य' (७४६८) अलुक् प्रथमा सि 'सो रु' (२२११७२) स०२० ।
=
[ यौजनशतिको मुनिः ] योजनशत योजनशतादभिगमनमर्हति यौजनशतिको मुनिः । अनेन इकण्प्र० इक 'वृद्धि: स्वरे०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० →
र० ||छ ||
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [340]