Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 365
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३४५ [ऐकादशाहिकी] एकेनाधिका दश = एकादश । 'एकादश-षोडश-षोडन्' (३।२।९१) एकादश निपात्यते । एकादशानामह्नां समाहारः । 'द्विगोरन्नह्नोऽट्' (७।३।९९) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । एकादशाहेन निर्वृत्त्यो यज्ञोऽप्युचारात् = एकादशाहः । एकादशाहस्य दक्षिणा = ऐकादशाहिकी । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [द्वादशाहिकी] द्वाभ्यामधिका दश = द्वादश । द्वादशानामह्नां समाहारः । द्विगोरन्ननोऽट्' (७।३।९९) अट्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । द्वादशाहस्य दक्षिणा = द्वादशाहिकी । अनेन इकण्प्र० → इक । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्o' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [द्वैवाजपेयिकी ] द्वयोर्वाजपेययोर्दक्षिणा = द्वैवाजपेयिकी । तद्वितविषये द्विगुः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र०। 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।। तेषु देये ॥ ६।४।९७ ॥ [ तेषु] तेषु पञ्चमी ङसि । सूत्रत्वाल्लुप् । [ देये] देय सप्तमी ङि।। [आग्निष्टोमिकम् ] अग्निष्टोमे देयम् = आग्निष्टोमिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । [वाजपेयिकं भक्तम् ] वाजपेये देयं = वाजपेयिकं भक्तम् । अनेन इकण्प्र० - इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।। काले कार्ये च भववत् ॥ ६।४।९८ ॥ [काले ] काले पञ्चमी ङसि । सूत्रत्वाल्लुप् । [कार्ये ] कार्य सप्तमी ङि । [च ] च प्रथमा सि । [भववत् ] भवे इव = भववत् । 'तत्र' (७।१।५३) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [वार्षिकम् ] वर्षा । वर्षासु भवं = वार्षिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । [मासिकम् ] मासे भवं = मासिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [शारदिकं श्राद्ध कर्म] शरद् । शरदि भवं = शारदिकं श्राद्धं कर्म । 'शरदः श्राद्धे कर्मणि' (६।३।८१) इकण्प्र० → इक । वृद्धिः । [शारदिकः, शारदो वा रोग आतपो वा] शरदि भवः = शारदिकः । 'नवा रोगा-ऽऽतपे' (६।३।८२) इकण्प्र० → इक । वृद्धिः । शरदि भवः = शारदः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । रोग आतपो वा । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [345]


Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444