________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३४५
[ऐकादशाहिकी] एकेनाधिका दश = एकादश । 'एकादश-षोडश-षोडन्' (३।२।९१) एकादश निपात्यते । एकादशानामह्नां समाहारः । 'द्विगोरन्नह्नोऽट्' (७।३।९९) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । एकादशाहेन निर्वृत्त्यो यज्ञोऽप्युचारात् = एकादशाहः । एकादशाहस्य दक्षिणा = ऐकादशाहिकी । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[द्वादशाहिकी] द्वाभ्यामधिका दश = द्वादश । द्वादशानामह्नां समाहारः । द्विगोरन्ननोऽट्' (७।३।९९) अट्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । द्वादशाहस्य दक्षिणा = द्वादशाहिकी । अनेन इकण्प्र० → इक । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्o' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[द्वैवाजपेयिकी ] द्वयोर्वाजपेययोर्दक्षिणा = द्वैवाजपेयिकी । तद्वितविषये द्विगुः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र०। 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
तेषु देये ॥ ६।४।९७ ॥ [ तेषु] तेषु पञ्चमी ङसि । सूत्रत्वाल्लुप् । [ देये] देय सप्तमी ङि।।
[आग्निष्टोमिकम् ] अग्निष्टोमे देयम् = आग्निष्टोमिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[वाजपेयिकं भक्तम् ] वाजपेये देयं = वाजपेयिकं भक्तम् । अनेन इकण्प्र० - इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
काले कार्ये च भववत् ॥ ६।४।९८ ॥ [काले ] काले पञ्चमी ङसि । सूत्रत्वाल्लुप् । [कार्ये ] कार्य सप्तमी ङि । [च ] च प्रथमा सि । [भववत् ] भवे इव = भववत् । 'तत्र' (७।१।५३) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
[वार्षिकम् ] वर्षा । वर्षासु भवं = वार्षिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[मासिकम् ] मासे भवं = मासिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[शारदिकं श्राद्ध कर्म] शरद् । शरदि भवं = शारदिकं श्राद्धं कर्म । 'शरदः श्राद्धे कर्मणि' (६।३।८१) इकण्प्र० → इक । वृद्धिः ।
[शारदिकः, शारदो वा रोग आतपो वा] शरदि भवः = शारदिकः । 'नवा रोगा-ऽऽतपे' (६।३।८२) इकण्प्र० → इक । वृद्धिः । शरदि भवः = शारदः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । रोग आतपो वा ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [345]