________________
३४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[नैशम्, नैशिकम् ] निशायां भवं = नैशिकम् । 'निशा-प्रदोषात्' (६।३।८३) इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[प्रादोषम्, प्रादोषिकम् ] प्रदोषे भवं = प्रादोषिकम्, प्रादोषम् । 'निशा-प्रदोषात्' (६।३।८३) इकण्प्र० → इक । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः आ । 'अवनुवर्णस्य' (७।४।६८) अलुक् ।
[ शौवस्तिकम् ] श्वस मण्ड्यते । श्वो भवं = शौवस्तिकम् । 'श्वसस्तादिः' (६।३।८४) तादि इकण्प्र० → इक । 'लोकात्' (१।१।३) श् पाठउ विश्लेषियइ । 'द्वारादेः' (७।४।६) औ ।
[चिरत्नम् ] चिरे भवं = चिरत्नम् । 'चिर-परुत्-परारेस्त्नः ' (६।३।८५) त्नप्र० । [परुत्त्नम् ] परुत् । परुद्भवं = परुत्त्नम् । 'चिर-परुत्-परारेस्त्नः ' (६।३।८५) त्नप्र० । [पुराणम् ] पुरा भवं = पुराणम् । 'पुरो नः' (६।३।८६) नप्र० । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण ।
[पूर्वाह्णतनम् ] पूर्वमह्नः = पूर्वाणः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः-अह्नदेशश्च । सप्तमी ङि । पूर्वाह्ण भवं = पूर्वाह्णतनम् । 'सायं-चिरं-प्राणें-प्रगे-ऽव्ययात्' (६।३।८८) तनटप्र० → तन ।
[सायंतनम् ] सायं भवं = सायंतनम् । 'सायं-चिरं-प्राणे०' (६।३।८८) तनटप्र० → तन ।
[चिरंतनम् ] चिरे भवं = चिरंतनम् । 'सायं-चिरं-प्राणे०' (६।३।८८) तनटप्र० → तन । अत एव निर्देशाद् मान्तत्वं निपात्यते । म् आनीयते इत्यर्थः ।
[पौषम् ] पुष्य । पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि = पुष्यः । 'चन्द्रयुक्तात्०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । पुष्ये भवं = पौषम् । 'भर्तु-सन्ध्या०' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[शैशिरम् ] शिशिरे भवं = शैशिरम् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[सान्ध्यम् ] सन्ध्यायां भवं = सान्ध्यम् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० + अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।।
[सांवत्सरं फलं पर्व वा] संवत्सरे भवं = सांवत्सरं फलं पर्व वा । 'संवत्सरात् फल-पर्वणोः' (६।३।९०) अण्प्र० + अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[हैमन्तम्, हैमनम् ] हेमन्त । हेमन्ते भवं = हैमन्तम् । 'हेमन्ताद् वा तलुक् च' (६।३।९१) अण्प्र० → अ - विकल्पेन तलुक् च । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[प्रावृषेण्यम् ] प्रावृष् । प्रावृषि भवं = प्रावृषेण्यम् । 'प्रावृष एण्यः' (६।३।९२) एण्यप्र० । सि-अम् ।
[वार्षिकम् ] वर्षासु देयं कार्यं वा = वार्षिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'अवर्णवर्णस्य' (७।४।६८) आलुक् ।
[मासिकम् ] मासे देयं कार्यं वा = मासिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० + इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[346]