________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
[ द्वैमासिकम् ] द्वयोर्मासयोर्देयं कार्यं वा = द्वैमासिकम् । 'वर्षा कालेभ्यः' (६।३।८०) इकण्प्र० इक वृद्धिः स्वरे०' (७४११) वृद्धिः ऐ 'अवर्णेवर्णस्य' (७४६८) अलुक् सि अम् ।
I
[ त्रैमासिकम् ] त्रिषु मासेषु देयं कार्यं वा = त्रैमासिकम् । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ॥छ||
व्युष्टादिष्वण् || ६ |४| ९९ ॥
[ व्युष्टादिषु ] व्युष्टादि सप्तमी सुप् । पञ्चमी ङसि । सूत्रत्वाल्लुप् । [ अण् ] अण् प्रथमा सि
[ वैयुष्टम् ] व्युष्टे प्रभाते देयं कार्य वा = वैयुष्टम् । अनेन अण्प्र० अ 'लोकात्' (११११३) व् पाठठ विश्लेषियइ । ‘य्वः पदान्तात् प्रागैदौत्' (७|४|५) ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ।
[ नैत्यम् ] नित्ये देयं कार्यं वा = नैत्यम् । अनेन अण्प्र० अ वृद्धिः स्वरे०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ।
३४७
व्युष्टसाहचर्यान्नित्यशब्दः कालवाची गृह्यते । 'उषू दाहे' (५२९) उष्, विपूर्व० । व्यष्यते स्माऽस्मिन्निति व्युष्टम् । 'अद्यर्थाच्चाऽऽधारे' (५।१।१२) प्र० । 'तवर्गस्य श्चवर्ग ० ' (१|३|६०) त०ट० ।
[ नैत्यम् ] नित्ये विषुवति षड्भिश्चराचरैर्मुहूर्तैरनाक्रम्यमाणे देयं कार्यं वा = नैत्यम् । मतान्तरेऽनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेनिति०' (७७४१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (४६८) अलुक् ।
विषुर्नाम मुहूर्त्तः सोऽस्यास्ति विषुवत् । समरात्रिंदिवः कालः । पुं- नपुंसकः । यद्वैजयन्ती पुरीतत् महिमा हेम, विषुवत् कर्म लोम दो: । नृषण्ढलिङ्गाः । अमी लिङ्गाः ॥छ ।
यथाकथाचाण्णः || ६|४|१०० ॥
=
[ यथाकथाचात् ] यथाकथाच पञ्चमी ङसि । अव्ययात् ।
[ णः ] ण प्रथमा सि ।
यथाकथाचशब्दोऽव्ययसमुदायो ऽनादरेणेत्यर्थे वर्त्तते ।
[ याथाकथाचम्, याथाकथाचा दक्षिणा ] यथाकथाच दीयते = याथाकथाचम् । अनेन णप्र० अ । 'वृद्धिः स्वरेष्वादेर्णिति०' (७४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४।६८) अलुक् । द्वितीये 'आत्' (२२४११८) आप्प्र० । दक्षिणा ॥
तेन हस्ताद् यः ॥ ६।४।१०१ ॥
[ तेन ] तेन पञ्चमी ङसि । सूत्रत्वाल्लुप् ।
[हस्तात् ] हस्त पञ्चमी ङसि ।
[ यः ] य प्रथमा सि ।
[ हस्त्यम् ] हस्तेन देयं कार्यं वा हस्त्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (१४।६८) अलुक् । सि-अम् ॥
=
। ॥छ||
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [347]