Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 343
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ [ सेनायाः] सेना पञ्चमी ङसि । [वा ] वा प्रथमा सि 'अव्ययस्य' (३२७) सिलुप् । [ सैन्यः, सैनिकः] सेनां समवैति = सैन्यः । अनेन ण्यप्र०य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । पक्षे सैनिकः । 'समूहार्थात् समवेते (६।३।४६ ) इकण्प्र० । इक । = [ सैन्यम् ] सेनैव सैन्यम् । स्वार्थे 'भेषजादिभ्यष्ट्यण्' (७/२/१६४) ट्यण्प्र० य वृद्धिः स्वरे०' (७४া१) वृद्धिः ऐ । 'अवर्णैवर्णस्य' (७|४|६८) आलुक् = सेनाया वा ॥ ६।४।४८ ॥ [ धर्माधर्मात् ] धर्मश्च अधर्मश्च = धर्माऽधर्मम्, तस्मात् । [ चरति ] चरतीति चरत् तस्मिन् । चरतिस्तात्पर्येणानुष्ठानि(ने) वर्त्तते । [ धार्मिकः ] धर्म चरति धार्मिकः । अनेन इकण्प्र० इक वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णैवर्णस्य' (७।४।६८) अलुक् । = धर्मा - ऽधर्माच्चरति ॥ ६ ४ ४९ ॥ [ आधर्मिकः] अधर्म चरति आधर्मिकः । अनेन इकण्प्र० इक 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् |||| = ३२३ षष्ठ्या ध || ६|४|५० ॥ [ षष्ठ्याः ] षष्ठी पञ्चमी ङसि । [ धयें] धर्म । धर्मादनपेतं धर्म्यम् । हृद्य-पद्य तुल्य-मूल्य- वश्य-पथ्य-वयस्य- धेनुष्या-गार्हपत्य जन्य-धर्म्यम्' (१।११) यप्र० । 'अवर्णेवर्णस्य' (७२४।६८) अलुक् । तस्मिन् । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । । [ शौल्कशालिकम् ] शुल्कशालाया धर्म्यं = शौल्कशालिकम् । अनेन इकण्प्र० । इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्ष्णिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । = [ गौल्मिकम् ] गुल्मा: स्थानाधिकृताः केतक्यादयो वा । गलन्ति काष्ठप्रधानतां रुक्मेति गुल्माः केतक्यादयः, ते हि का सारा भवन्ति । गुल्मस्य शुल्कस्थानस्य धर्म्यं गौल्मिकम् । अनेन इकण्प्र० वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । इक वृद्धिः स्वरे०' (७|४|१) [ आतरिकम् ] आ 'तृ प्लवन-तरणयो:' (२७) तृ । आ एत्य तरन्त्यस्मिन् = आतरम् । 'पुन्नाग्नि घः' (५|३|१३०) चप्र० अ 'नामिनो गुणोऽक्ङिति (४|३|१) गु० अर् आतरस्य धर्म्यम् = आतरिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य (७।४।६८) अलुक् । सि-अम् ॥छ । ऋनरादेरन् || ६|४|५१ ॥ [ ऋन्नरादेः ] ऋच्च नरादिश्च ऋनरादिस्तस्मात् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [323]

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444