________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२८९
'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । योगविभागात् मोऽन्तः । कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा = कर्मन्दिनः । अनेन इनप्र० । उभयत्र 'तद् वेत्त्यधीते (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा जस् ।
[काश्विकम्] कृशाश्विन् मण्ड्यते । कृशाश्विनां धर्म:-आम्नायः-सङ्घो वा = काश्विकम् । 'चरणादकञ्' (६।३।१६८) अकप्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आर् । 'नोऽपदस्य तद्धिते' (७४।६१) इन् - लोपः ।
[कार्मन्दकम् ] कर्मन्दिन् मण्ड्यते । कर्मन्दिनां धर्म:-आम्नायः-सको वा = कार्मन्दकम् । 'चरणादकञ्' (६।३।१६८) अकप्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'नोऽपदस्य०' (७४/६१) इन्लोपः । बाहुलकात् दीर्घत्वम् (क्लीबत्वम्) ।
[कापिलेयिनो नटाः] कपिलाया अपत्यं = कापिलेयः । 'ङ्याप्त्यूडः' (६।१७०) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । कापिलेयेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा = कापिलेयिनः । मतान्तरे अनेन इन्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[कापिलेयक आम्नायः] कापिलेयिनां नटानां आम्नायः = कापिलेयकः । 'चरणादकञ्' (६।३।१६८) अकञ्प्र० → अक । 'नोऽपदस्य०' (७४/६१) इन्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । आम्नायः ॥छ।।
उपज्ञाते ॥ ६।३।१९१ ॥ [ उपज्ञाते ] प्रथमत उपदेशेन विना ज्ञातमुपज्ञातम्, तस्मिन् ।
[पाणिनीयं अकालकं, व्याकरणम् ] पाणिनेन पाणिनिना वा उपज्ञातं = पाणिनीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । न विद्यते काल:-कालाधिकारो यत्र तत् = अकालकम् । 'शेषाद् वा' (७।३।१७५) कच्प्र० → क । 'नबत्' (३।२।१२५) न० → अ० । सि-अम् । व्याकरणम् ।।
[काशकृत्स्नं गुरुलाघवम्] कशकृत्स्नस्यापत्यं = काशकृत्स्नि(:) । 'अत इञ्' (६१३१) इप्र० → इ । वृद्धि: आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । काशकृत्स्निना उपज्ञातं = काशकृत्स्नम् । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । सि-अम् । गुरुश्च लाघवश्च = गुरुलाघवम् । सि-अम् ॥छ।।
कृते ॥ ६।३।१९२ ॥ [कृते] कृत सप्तमी ङि ।
[शैवः ] शिवेन कृतो ग्रन्थः = शैवः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्।
[वाररुचानि वाक्यानि] वररुचिना कृतानि = वाररुचानि । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । वाक्यानि ।
[जालूकाः श्लोकाः] जलूकेन जलूकया वा कृता(:) । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । प्रथमा जस् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [289]