________________
२९०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[जालुकाः] जलुकस्यापत्यं = जालुकि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जालुकिना कृताः = जालुकाः । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा जस् ।
[सिद्धसेनीयः स्तवः] सिद्धसेनेन कृतः = सिद्धसेनीयः । 'संज्ञा दुर्वा' (६।१।६) इत्यनेन दुसंज्ञत्वात् 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । स्तवः ।
[ऐष्टकः] इष्टि(ष्ट)काभिः कृतः प्रासादः = ऐष्टकः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[नारदीयम् ] नारदेन कृतं गीतं = नारदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[मानसी कन्या ] मनस् मण्ड्यते । मनसा कृता = मानसी । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः 'स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अणजेयेकण्०' (२।४।२०) ङी । कन्या ॥छ।।
नाम्नि मक्षिकादिभ्यः ॥ ६।३।१९३ ॥
[नाम्नि ] नामन् सप्तमी ङि । 'ई-ङौ वा' (२।१।१०९) अलोपः । [मक्षिकादिभ्यः] मक्षिका आदिर्येषां ते = मक्षिकादयः, तेभ्यः = मक्षिकादिभ्यः । पञ्चमी भ्यस् ।
[माक्षिकं मधु] कष (५०७) - शिष (५०८) - जष (५०९) - झष (५१०) - वष (५११) 'मष हिंसायाम्' (५१२) मष् । मष्यन्ते-हिंस्यते(न्ते) लू(भू)तादिना इति । 'कुशिक-हृदिक-मक्षिकेतिक-पिपीलिकादयः' (उणा० ४५) मक्षिकानिपातः । मक्षिकाभिः कृतं = माक्षिकम् । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।।
[सारघम्] 'सं गतौ' (२५) सृ । सरन्ति गच्छन्तीति सरघाः । 'सर्तेरघः' (उणा० १११) अघप्र० । 'नामिनो०' (४।३।१) गु० अर् । सरघाभिः कृतं = सारघम् । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । सि-अम् ।
[गार्मुतम् ] गृत् निगरणे' (१३३५) गृ । गिरतीति गर्मुत् । 'ग्रो मादिर्वा' (उणा० ८९०) मुत्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० → अर् । गर्मुद्भिः कृतं = गार्मुतम् । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । सि-अम् ।
[नार्मुकम् ] 'नृश् नये' (१५३७) नृ । नृणन्तीति नर्मुकाः । 'कञ्चकांशुक-नंशुक-पाकुक-हिबुक-चिबुक-जम्बुकचुलुक-चूचुकोल्मुक-भावुक-पृथुक-मधुकादयः' (उणा० ५७) किदुकप्र०(?) निपातः । 'नामिनो०' (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । नर्मुकाभिः कृतं = नार्मुकम् । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक्। सि-अम् ।
[वातपम् ]वातपैः कृतं = वातपम् । अनेन 'प्राग जितादण' (६।१।१३) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। सि-अम् । इत्यत्र अणन्तं नाम संज्ञा न ईयान्तमितीयो न भवति । अयमर्थः-ईयप्रत्यये समानीते संज्ञा न गम्यते । अतः कारणात् ईयः प्रत्ययो न भवति, अपि तु अणेव । अणि द्विमतिसंज्ञा गम्यते इति शेषः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[290]