Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२३३
देरिट्' (४।४।३२) इट् । ' षष्ठी वाऽनादरे' (२।२।१०८ ) षष्ठी ।
[ मनुष्याणां क्षत्रियः शूरतमः ] मनुष्याणामित्यत्र 'सप्तमी चाऽविभागे निर्धारणे' (२।२।१०९) इत्यनेन षष्ठी । प्रकृष्टः शूरः = शूरतमः । प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम ।
[गवां कृष्णा संपन्नक्षीरतमा ] प्रकृष्टं क्षीरं यस्याः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । 'आत्' (२।४।१८) आप्प्र० → आ । 'सप्तमी चाविभागे० ' (२।२।१०९) इत्यनेन षष्ठी ।
[ अध्वगानां रथगामी शीघ्रतमः ] अध्वन् अम ( ३९२ ) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - ‘गम्लं गतौ' (३९६) ग्रम् । अध्वनि गच्छन्तीति अध्वगाः । ' क्वचित् ' ( ५।१।१७१) डप्र० अ । ' डित्यन्त्य० ' (२।१।११४ ) अम्लोपः, तेषाम् । रथ अम (३९२) - द्रम ( ३९३ ) - हम्म (३९४ ) - मीमृ (३९५) - 'गम्लृ गतौ' (३९६) गम् । रथेन गच्छतीत्येवंशीलः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० - इन् । 'ञ्णिति' (४ | ३ |५०) उपान्त्यवृद्धिः । प्रथमा सि । 'इन्हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । ' दीर्घड्याब्० ' (१।४।४५) सिलोपः । 'नाम्नो नोऽननः ' (२।१।९१) नलोपः । 'सप्तमी चाविभागे निर्धारणे' (२।२।१०९) षष्ठी ।
[सर्पिर्ज्ञानं, मातृस्मरणम् ] सर्पिषो ज्ञानम्, मातुः स्मरणमित्यत्र ' कृति ' ( ३।१।७७ ) इत्यनेन समासो भविष्यति, यतः कृद्योगेऽत्र षष्ठी, संबंधे त्वनेनैव ।
[ गोस्वामी ] गवां स्वामी । [ पृथिवीश्वरः ] पृथिव्या ईश्वरः । [विद्यादायादः ] विद्याया दायादः ||छ ||
[कृति] 'डुकृंग् करणे' (८८८ ) कृ
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
कृति ।।३।१।७७।।
। करोतीति कृत्, तस्मिन् ।
1
[सिद्धसेनकृतिः ] 'डुकृंग् करणे' (८८८ ) कृ । करणं = कृतिः । 'स्त्रियां क्ति: ' (५।३।९१) क्तिप्र० ति । सिद्धसेनस्य कृतिः । 'कर्तरि' (२।२।८६ ) षष्ठी ।
[गणधरोक्तिः] 'वचंक् भाषणे' (१०९६) वच् । वचनं उक्तिः । ‘स्त्रियां क्तिः' (५। ३ ।९१) क्तिप्र० ति । यजादिवचेः किति' (४।१।७९) य्वृत् व० उ० । 'चजः क- गम्' (२।१।८६) च० क० । गणधराणामुक्तिः । कर्तरि' (२।२।८६) षष्ठी ।
=
[इध्मव्रश्चनः] ' ओव्रस्चौत् छेदने' (१३४१) व्रस्च् । वृश्चति । 'अनट्' (५।३।१२४) अनट्प्र० अन । इन्धनानां = व्रश्चनः । 'कर्मणि कृतः ' (२।२।८३ ) इत्यनेन षष्ठी ।
Jain Education International
[ पलाशशातनः ] 卐 शातण् शातने ( ) शात् । ‘चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । शातयतीति । 'णिवेत्त्यास-श्रन्थ-घट्ट-वन्देरन' (५|३|१११ ) अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । पलाशानां शातनः । 'कर्मणि कृतः ' (२।२।८३ ) षष्ठी ।
-
[धर्मानुस्मरणम् ] अनुस्मृ चिन्तायाम् ' (१८) स्मृ । अनुस्मर्यते । 'अनट्' (५।३।१२४) अनट्प्र० अन । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् । 'रषृवर्णान्नो ० ' (२|३|६३) न० ० । धर्मस्याऽनुस्मरणम् । 'कर्मणि कृतः '
श० म० न्यासानुसन्धाने 'शदलृ शातने' अतो ण्यन्तात् 'शदिरगतौ शात्' (४।२।२३) इति शातादेशे शात्यतेऽनेनेति करणे बाहुलकात् कर्त्तरि वाऽनटि शातनो दण्डः ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346