Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
[अर्जुनः कार्तवीर्यः] कृतवीर्यस्याऽपत्यम् ।
[ दीर्घश्चारायणः ] चा (च) रस्याऽपत्यं वृद्धं = चारायण: । 'नडादिभ्य आयनण्' (६।१।५३) आयनप्र० आयन । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[कृष्णसर्पः ] कृष्णश्चासौ सर्पश्च ।
[लोहितशालिः ] लोहितश्चासौ शालिश्च ।
[गौरखरः ] गौरश्चासौ खरश्च । [लोहिताहिः] लोहितश्चासावहिश्च । [ नरसिंहः ] नरश्चासौ सिंहश्च । [पुरुषमृगः ] पुरुषश्चासौ मृगश्च । [बकटिट्टिभः ] बकश्चासौ टिट्टिभश्च ।
[ नकुलसर्पः ] नकुलश्चासौ सर्पश्च ।
[ पक्षिमार्जारः ] पक्षी चासौ मार्जारश्च ।
[कुक्कुटसर्पः ] कुक्कुटश्चासौ सर्पश्च ।
भूयोऽवयवाभिधानश्च प्राधान्याद् विशेष्यत्वमितरस्य तु विशेषणत्वम् ॥ छ ॥
२४८
पूर्वकालैक-सर्व-जरत्-पुराण- नव- केवलम् ||३|१|९७ ।।
[पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ] पूर्वः कालो यस्य सः पूर्वकालः, पूर्वकालश्च एकश्च सर्वश्च जरंश्च पुराणश्च नवश्च केवलश्च = पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ।
[ खातानुलिप्तः ] 'ष्णांक् शौचे' (१०६४ ) ष्णा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्त्रा । 'निमित्ताभावे० ' ( न्या. सं० वक्ष० १/२९ / सूत्र ) त्रा । स्नाति स्म । 'गत्यर्था - ऽकर्मक-पिब-भुजेः ' ( ५1१1११) क्तप्र० । अनु 'लिपत् उपदेहे' ( १३२४) लिप् । अनुलिप्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । पूर्वं स्रातः पश्चादनुलिप्तः ।
[लिप्तवासितः ] पूर्वं लिप्तः पश्चाद् वासितः ।
[कृष्टमतीकृता भूमिः ] अमता मता कृता = :
मतीकृता । कृभ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याSनव्ययस्य' ( ४ | ३ | १११ ) ई । पूर्वं कृष्टा पश्चान्मतीकृता ।
[छिन्नप्ररूढो वृक्षः ] पूर्वं छिन्नः पश्चात् प्ररूढः ।
[ एकशाटी] शाट 'गौरादिभ्यो मुख्यान्डी : ' (२।४।१९ ) ङी । एका शाटी । 'पुम्वत् कर्मधारये ' ( ३।२।५७) पुंवत् ।
[एकर्षयः] एके च ते ऋषयश्च ।
[ एकचौरः ] एकश्चासौ चौरश्च ।
[ एकधनुर्धरः ] एकश्चासौ धनुर्धरश्च ।
[ सर्वशैलाः ] सर्वे च ते शैलाश्च ।
[सर्वरात्रः] सर्वा चासौ रात्रिश्च । 'संख्यातैक- पुण्य- वर्षा -दीर्घाच्च रात्रेरत्' ( ७।३।११९) अत्समासान्तः । 'अवर्णेवर्णस्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346