Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२८७
विशेषण - सर्वादि-संख्यं बहुव्रीहौ ||३|१|१५० ||
[विशेषणसर्वादिसंख्यम् ] सर्व आदिर्यस्याऽसौ सर्वादिः । 5 विशेषणं च सर्वादिश्च संख्या च = विशेषणसर्वादिसंख्यम् । 'क्लीबे' (२।४।९७) ह्रस्वः ।
+
[ मध्यगृहम् गृहमध्यम् ] + मध्यश्चासौ गुहश्च (गृहाश्च - गृहं च ) ।
[ अधरबिम्बम्, बिम्बाधरः ] अधरो बिम्बमिव ।
[ओष्ठबिम्बम्, बिम्बोष्ठः ] ओष्ठो बिम्बमिव । ' उपमेयं व्याघ्राद्यैः साम्यानुक्तौ' ( ३।१।१०२ ) समासः |छ।
[चित्रगुः ] चित्रा गौर्यस्याऽसौ । ' गोश्चान्ते० ' (२।४।९६) ह्रस्वः ।
[शबलगुः] शबला गौर्यस्याऽसौ । ' गोश्चान्ते० ' ( २ ।४ । ९६) ह्रस्वः । ' परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुंवद्भावः ।
[ कण्ठेकालः ] कण्ठे कालोऽस्य सः ।
[ उरसिलोमा] उरसि लोमान्यस्य सः ।
[ उदरेमणिः] उदरे मणिर्यस्य सः । त्रिषूदाहरणेषु 'उष्ट्रमुखादयः' (३।१।२३) समासः ।
[ सर्वशुक्लः ] सर्वं शुक्लमस्य सः ।
[ सर्वकृष्णः ] सर्व कृष्णमस्य सः ।
[सर्वसारः ] 'सृ गतौ' (२५) सृ । सरतीति । 'सः' स्थिर-व्याधि-बल- मत्स्ये' (५।३।१७) घञ्प्र०→अ । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धिः आर् । सर्वं सारमस्य सः ।
P5
[सर्वलघुः ] सर्वो लघुरस्य सः । [विश्वदेवः ] विश्वे देवाः सन्ति । [विश्वामित्रः ] विश्वे मित्राणि सन्ति । [ उभयचेतनः ] उभये चेतने यस्य सः । [द्विशुक्लः ] द्वौ शुक्लौ गुणावस्य सः । [ चतुर्ह्रस्वः ] चतुर्षु स्थानेषु ह्रस्वः । [पञ्चदीर्घः ] पञ्चसु स्थानेषु दीर्घः ।
[ षडुन्नतः ] षट्सु स्थानेषु उन्नतः ।
[ सप्तरक्तः ] सप्तसु स्थानेषु रक्तः ।
[त्र्यन्यः ] त्रिभ्योऽन्यः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
श० म० न्यासानुसन्धाने गृहस्य मध्यम् । विशेषणश्च ।
[ द्वियुष्मत्कः ] द्वौ युष्मदीयौ यस्य सः । ' शेषाद् वा' (७।३।१७५) कच्प्र० →कः । [द्व्यस्मत्कः] द्वावस्मदीयौ यस्य सः । शेषाद् वा' (७।३।१७५ ) कच्प्र० क ।
[उपसर्वम्] सर्वेषामुपसमीपम् ||छ ||
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346