SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८७ विशेषण - सर्वादि-संख्यं बहुव्रीहौ ||३|१|१५० || [विशेषणसर्वादिसंख्यम् ] सर्व आदिर्यस्याऽसौ सर्वादिः । 5 विशेषणं च सर्वादिश्च संख्या च = विशेषणसर्वादिसंख्यम् । 'क्लीबे' (२।४।९७) ह्रस्वः । + [ मध्यगृहम् गृहमध्यम् ] + मध्यश्चासौ गुहश्च (गृहाश्च - गृहं च ) । [ अधरबिम्बम्, बिम्बाधरः ] अधरो बिम्बमिव । [ओष्ठबिम्बम्, बिम्बोष्ठः ] ओष्ठो बिम्बमिव । ' उपमेयं व्याघ्राद्यैः साम्यानुक्तौ' ( ३।१।१०२ ) समासः |छ। [चित्रगुः ] चित्रा गौर्यस्याऽसौ । ' गोश्चान्ते० ' (२।४।९६) ह्रस्वः । [शबलगुः] शबला गौर्यस्याऽसौ । ' गोश्चान्ते० ' ( २ ।४ । ९६) ह्रस्वः । ' परतः स्त्री पुम्वत् ० ' ( ३।२।४९) पुंवद्भावः । [ कण्ठेकालः ] कण्ठे कालोऽस्य सः । [ उरसिलोमा] उरसि लोमान्यस्य सः । [ उदरेमणिः] उदरे मणिर्यस्य सः । त्रिषूदाहरणेषु 'उष्ट्रमुखादयः' (३।१।२३) समासः । [ सर्वशुक्लः ] सर्वं शुक्लमस्य सः । [ सर्वकृष्णः ] सर्व कृष्णमस्य सः । [सर्वसारः ] 'सृ गतौ' (२५) सृ । सरतीति । 'सः' स्थिर-व्याधि-बल- मत्स्ये' (५।३।१७) घञ्प्र०→अ । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धिः आर् । सर्वं सारमस्य सः । P5 [सर्वलघुः ] सर्वो लघुरस्य सः । [विश्वदेवः ] विश्वे देवाः सन्ति । [विश्वामित्रः ] विश्वे मित्राणि सन्ति । [ उभयचेतनः ] उभये चेतने यस्य सः । [द्विशुक्लः ] द्वौ शुक्लौ गुणावस्य सः । [ चतुर्ह्रस्वः ] चतुर्षु स्थानेषु ह्रस्वः । [पञ्चदीर्घः ] पञ्चसु स्थानेषु दीर्घः । [ षडुन्नतः ] षट्सु स्थानेषु उन्नतः । [ सप्तरक्तः ] सप्तसु स्थानेषु रक्तः । [त्र्यन्यः ] त्रिभ्योऽन्यः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । श० म० न्यासानुसन्धाने गृहस्य मध्यम् । विशेषणश्च । [ द्वियुष्मत्कः ] द्वौ युष्मदीयौ यस्य सः । ' शेषाद् वा' (७।३।१७५) कच्प्र० →कः । [द्व्यस्मत्कः] द्वावस्मदीयौ यस्य सः । शेषाद् वा' (७।३।१७५ ) कच्प्र० क । [उपसर्वम्] सर्वेषामुपसमीपम् ||छ || Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy