________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
२८६
[वैकारिमतगाजवाजम्] विकारिमतस्याऽपत्यम् । 'ऋषि-वृष्ण्वन्धक-कुरुभ्यः' (६।१।६१) अण्प्र०-→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । गजवाजस्येदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । वैकारिमतश्च गाजवाजश्च ।
[गो(गौ)पालिधान-पूलासम्] गो(गौ)पालिदा(धा)नश्च पूलाश(स)श्च । [कुरण्डस्थल-पूलासम्] कुरण्डस्थलं च पूलाश(स)श्च । [दार-जारौ] दारश्च जारश्च । औ । “धर्मप्रजासंपत्ते(न्ने) दारे नान्यं कुर्वीत" इति वाक्यदर्शनात् । [विष्वक्सेनाऽर्जुनौ] विष्वक्सेनश्च अर्जुनश्च । [शूद्रार्यो] शूद्रश्च अर्यश्च । [विषयेन्द्रियाणि] विषयाश्च इन्द्रियाणि च । [गवाश्चौ] गजश्च(गौश्च) अश्वश्च । [अवन्त्यश्मकाः] अवन्त्य(तय)श्च अश्मकाश्च । जस् ।
[चित्रा-स्वाती माणविके] + चित्रया चन्द्रयुक्तः कालोऽपि चित्रा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प० । 'बहुलाऽनुराधा-पुष्यार्थ-पुनर्वसु-हस्त-विशाखा-स्वातेर्लुप्' (६।३।१०७) अण्लोपः (?) ('चित्रा-रेवती०' (६।३।१०८) अण्लोपः )। स्वात्या चन्द्रयुक्तया युक्तः कालः । ‘चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । 'बहुलाऽनुराधा० (६।३।१०७) अण्लोपः । चित्रा च स्वातिश्च । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ई।
[केशश्मश्रु] केशाश्च श्मश्रूणि च । प्र० सि । 'अनतो लुप' (१।४।५९) सिलोपः । [भार्या-पती] भार्या च पतिश्च । [पुत्र-पती] पुत्रश्च पतिश्च ।। [स्वसृ-पती] स्वसा च पतिश्च । [जाया-पती, जम्पती] जाया च पतिश्च । गणपाठाज्जायाशब्दस्य जम्भावश्च विकल्पे निपात्यते । [पुत्र-पशू] पुत्रश्च पशुश्च । औ । [शिरो-जानु] शिरश्च जानु च । [नर-नारायणौ] नरश्च नारायणश्च । [सोमरुद्रौ] सोमश्च रुद्रश्च । [कुबेर-केशवौ] कुबेरश्च केशवश्च | औ । [काक-मयूरौ] काकश्च मयूरश्च । [उमा-महेश्वरौ] उमा च महेश्वरश्च । [पाण्डुधृतराष्ट्रौ] पाण्डुश्च धृतराष्ट्रश्च । औ । [विष्णुवासवौ] विष्णुश्च वासवश्च । औ । अनेन सर्वत्र पूर्वनिपातः । [पुरुषोत्तमः, उत्तमपुरुषः] पुरुषश्चासावुत्तमश्च ।
+ श० म० न्या० - चित्रायां जाता चित्रा, स्वात्यां जाता स्वातिः, ते च माणविके इति चित्रास्वाती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org