________________
२८५
श्रीसिद्भहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[पञ्चाम्राः] पञ्च च ते आम्राश्च ।
प्रथमया प्रथमान्तेन पदेन यदुक्तं निर्दिष्टं तद् इति कोऽर्थः ? 'नाम्नः प्रथमैक-द्वि-बहौ' (२२१३१) - ‘गौणात समया०' (२।२।३३)- सिद्धौ तृतीया' (२।२।४३) - 'चतुर्थी' (२।२५३) - ‘पञ्चम्यपादाने' (२।२।६९) - 'अज्ञाने ज्ञः षष्ठी' (२।२।८०) - 'सप्तम्यधिकरणे' (२।२।९५) एतेषु पदेषु या(ये) या(ये) प्रथमा-द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तमीपदा उक्तास्तेषां पुरतः प्रथमैकवचनं सि यद् दीयते तत् प्रथमान्तं यतो विभक्त्यन्ताः पदाः इति वचनम्, तेन प्रथमान्तेन यदुक्तं (तत्) प्रथमोक्तमिति भावार्थः ।।छ।।
राजदन्तादिषु ।।३।१।१४९।। [राजदन्तादिषु] राजदन्त आदिर्येषां ते = राजदन्तादयस्तेषु । ___ [सिक्तसंसृष्टम्] 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिच् । सिच्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । 'क्तेऽनिटश्व-जो:०' (४।१।१११) च०→क० (?) ('च-जः क-गम्' (२।१।८६) च०
→क०) । सम् 'सृजी(ज)त् विसर्गे' (१३४९) सृज् । संसृज्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप०→त । 'यज-सृजमृज०' (२।१।८७) ज०→ष० । 'तवर्गस्य०' (१।३।६०) त०-→ट० । पूर्वं संसृष्टं पश्चात् सिक्तम् ।
[भृष्टलुञ्चितम्] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । भ्र(9)ज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘ग्रहवस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) स०→द० । 'तवर्गस्य०' (१।३।६०) द०→ज० । 'यज-सृज-मृज०' (२।१।८७) ज०→ष० । तवर्गस्य० (१।३।६०) त०→ट० । पूर्वं लुचितं पश्चाद् भृष्टम् ।
[नग्नमुषितम्] पूर्वं मुषितं पश्चान्नग्नम् । [अवक्लिन्नपक्वम्] पूर्वं पक्वं पश्चादवक्लिन्नम् ।
[अर्पितोतम] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२19) वा । ऊयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'यजादि-वचेः किति' (४|११७९) य्वृत् व०→उ० । पूर्वमुतं पश्चादर्पितम् ।
[उप्तगाढम्] पूर्वं गाढं पश्चादुप्तम् । [उत्तमर्णः] ऋणे उत्तमः । [तन्दुल-किण्वम] तन्दुलं च किण्वं च । किण्वं-सुरोपकरणद्रव्यम् । +[चित्ररथवाहलीकौ] चित्ररथश्च वाहलीकश्च । [स्नातक-राजानौ] स्नातकश्च राजा च । [उशीरबीज-शिञ्जास्थम्] उसी(शी)रबीजश्च* सिं(शिं)जास्थश्च । [आरद्वायनि-चान्धनि आरद्वायनि च चान्धनि च । प्र० सि । 'अनतो लुप' (१।४।५९) सिलोपः । [अधरोष्ठम्] अधरश्च ओष्ठश्च ।
ॐ बृहवृत्तौ - सिक्तसंमृष्टम् । ॐ श म० न्या० - आरट्वायनिश्च चान्धनिश्च । + श० म० न्या० - चित्ररथवाल्हीको इति - चित्ररथो राजविशेष एव वाल्हीकपदसान्निध्यात्, वाल्हीको नाम देशः, तस्य राजापि वाल्हीकः ।
यद्यपि चित्ररथो नाम गन्धर्वराजः पुराणादिषु प्रसिद्धः, परमिह स न ग्रहीतव्यस्तस्य राज्ञा सह सहचरितत्वस्याप्रसिद्धत्वात् । * श० म० न्या० - शिक्षास्थमिति तालव्यादेः स्थाने सिञ्जास्थम् - सिञ्जाश्वत्थम् इति द्वौ दनयादी द्वन्द्वौ पठयेते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org