Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 297
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। २८८ क्ताः ।।३।११५१॥ [कृतभव्यकट:] भव्यश्चासौ कटश्च । कृतो भव्यकटोऽनेन इति कृतभव्यकटः । भव्य इति विशेषणम्, विशेषणं पूर्वसूत्रेण पूर्वं निपतति परं बाध्यते । [कृतविश्वः] कृतं विश्वमनेन । [कृतप्रियः] कृतः प्रियोऽनेन सः = कृतप्रियः ।।छ।। जाति-काल-सुखादेर्नवा ।।३।१।१५२।। [जातिकालसुखादेः] सुखमादिर्यस्याऽसौ सुखादिः । जातिश्च कालश्च सुखादिश्च = जातिकालसुखादिस्तस्मात् । [शाङ्गरजग्धी, जग्धशाङ्गरा] ‘अदं भक्षणे' (१०५९) अद् । अद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'यपि चाऽदो जग्ध्' (४।४।१६) जग्ध् । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'धुटो धुटि स्वे वा' (१।३।४८) धलोपः । शाइरो जग्धोऽनया । 'अनाच्छादजात्यादेर्नवा' (२।४।४७) डी । [पलाण्डुभक्षिती, भक्षितपलाण्डुः] पलाण्डु क्षितोऽनया सा । ‘अनाच्छादजात्यादेर्नवा' (२।४।४७) डी । [पाणिगृहीती, गृहीतपाणिः] पाणिर्गृहीतोऽनया सा । जातिविवक्षायां ‘अनाच्छादजात्यादेर्नवा' (२।४।४७) डी । अन्यथा 'पाणिगृहीतीति' (२।४।५२) (डी) प्राप्नोति । [कटकृतः, कृतकटः] कृतः कटोऽनेन । [आहूतबाहाणः] आहूतो ब्राह्मणो येन सः । [सेवितक्षत्रियः] सेवितः क्षत्रियो येन सः । [तर्पितदाक्षिः] दक्षस्याऽपत्यम् । 'अत इञ्' (६।१।३१) इप्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । तर्पितो दाक्षिर्येन सः । __[प्रीणितकटः] 'प्रींग्श् तृप्ति कान्त्योः ' (१५१०) प्री । प्रीणन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० →इ । 'धूग्-प्रीगोर्नः' (४।२।१८) न । प्रीण्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । ‘णेरनिटि' (४।३।८३) णिग्लोपः । प्रीणितः कटो येन सः । [मासयाता, यातमासा] मासो यातोऽस्याः सा । [मासगतः, गतमासः] मासो गतोऽस्याः सा (अस्य सः) । सुखादयो दश क्यविधौ निर्दिष्टाः[सुखयाता, यातसुखा] सुखं यातमस्याः सा । [हीनदुःखा, दुःखहीना] दुःखं हीनमस्याः सा । [तप्रोत्पन्ना, उत्पन्नतृप्रा] + तृप्र उत्पन्नो यस्याः सा ||छ।। आहिताग्न्यादिषु ।।३।१।१५३।। [आहिताग्न्यादिषु आहितोऽग्निर्येन सः । आहिताग्निरादिर्येषां ते, तेषु । ॐ वृहद्वृत्तौ - प्रीणितकठः । + श० म० न्यासानुसन्धाने - उत्पन्नं तृपं दुःखमस्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346