Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 301
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ २९२ धर्मार्थादिषु द्वन्द्वे ।।३।१।१५९।। [धर्मार्थादिषु] धर्मश्च अर्थश्च, धर्मार्थावादिर्येषां (दी येषां) ते = धर्मार्थादयस्तेषु । [धर्मार्थी, अर्थधर्मो] धर्मश्च अर्थश्च । [कामार्थी, अर्थकामौ] कामश्च अर्थश्च । [शब्दार्थी, अर्थशब्दौ] शब्दश्च अर्थश्च । [आद्यन्तौ, अन्तादी] आदिश्च अन्तश्च । प्रथमा औ सर्वत्र ज्ञेयः । [अग्नेन्द्रौ, इन्द्राग्नी] अग्निश्च इन्द्रश्च । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) इ०→आ० । [चन्द्रार्को, अर्कचन्द्रौ] चन्द्रश्च अर्कश्च । [अश्वत्थकपित्थौ, कपित्थाश्वत्थौ] अश्वत्थश्च कपित्थश्च । [सर्पिर्मधुनी, मधुसर्पिषी] सर्पिश्च मधुश्च । औ । औरीः (१।४।५६) ई । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [गुणवृद्धी, वृद्धिगुणौ] गुणश्च वृद्धिश्च । [दीर्घलघू, लघुदी?] दीर्घश्च लघुश्च । [चन्द्रराहू, राहुचन्द्रौ] चन्द्रश्च राहुश्च । [तपःश्रुते, श्रुततपसी] तपश्च श्रुतं च । औ । ‘औरीः' (१।४।५६) ई । [द्रोणभीष्मी, भीष्मद्रोणौ] द्रोणश्च भीष्मश्च । [शकृन्मूत्रम्, मूत्रशकृत्] शकृच्च मूत्रं च । [कुशकाशम्, काशकुशम्] कुश(शा)श्च काश(शा)श्च । [करभरासभौ, रासभकरभौ] करभश्च रासभश्च । [समीरणाग्नी, अग्निसमीरणौ] समीरणश्च अग्निश्च । [आदित्यचन्द्रौ, चन्द्रादित्यौ] आदित्यश्च चन्द्रश्च । [पाणीनीयरौढीयाः, रौढीयपाणिनीयाः] 'रुहं जन्मनि' (९८८) रुह् । रुहाते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'हो धुट्-पदान्ते' (२।१।८२) ह०→ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध०→ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः-पूर्विला स्वरदीर्घत्वम् । रूढस्याऽपत्यं = रौढिः । 'अत इञ्' (६।१।३१) इञ्प० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । रौढेरिमे छात्राः । पाणिनि । पाणिनेरिमे छात्राः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णे०' (७।४।६८) इलोपः । पाणिनीयाश्च रौढीयाश्च । जस् । [जित्याविपूयविनीयाः, विपूयविनीयजित्याः] 'जिं अभिभवे' (८) जि । वि ‘पूङ् पवने' (६००) पू । ‘णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादे० ' (२।३।९७) नी विपूर्व० । 'जि-विपू-न्यो हलि-मुञ्ज-कल्के' (५।१।४३) क्यप्प०→य । प्रथमे 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । जित्याश्च विपूयाश्च विनीयाश्च = जित्याविपूयविनीयाः । विनीयशब्दस्य पूर्वनिपातो न, गणे दर्शनात् । [ब्राह्मणक्षत्रियविट्शूद्राः, शूद्रविटक्षत्रियविप्राः] ब्राह्मणाश्च क्षत्रियाश्च विशश्च शूद्राश्च । जस् । [देवापिशन्तनू, शन्तनुदेवापी] देवापिश्च शन्तनुश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346