Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२९५
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुंढिका ।
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwNAVARANA
वा' (६।२।१००) अणप्र०→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । फाल्गुनश्च चैत्रश्च । औ ।
[वैशाख-ज्येष्ठौ] वैशाखश्च ज्येष्ठश्च । [ब्राह्मण-क्षत्रियौ] ब्राह्मणश्च क्षत्रियश्च । [क्षत्रिय-वैश्यौ] क्षत्रियश्च वैश्यश्च । औ । [वैश्य-शूद्रौ] वैश्यश्च शूद्रश्च । औ । [बाह्मण-क्षत्रिय-विशः] ब्राह्मणश्च क्षत्रियश्च विट् च । जस् । [ब्राह्मण-क्षत्रिय-विट्-शूद्राः] ब्राह्मणश्च क्षत्रियश्च विट् च शूद्रश्च । प्र० जस् । [बलदेव-वासुदेवौ] बलदेवश्च वासुदेवश्च । [युधिष्ठिर-भीमा-ऽर्जुनाः] युधिष्ठिरश्च भीमश्च अर्जुनश्च । प्र० जस् ।।छ।।
भर्तुतुल्यस्वरम् ।।३।१।१६२।। [भर्तुतुल्यस्वरम्] भं च ऋतुश्च । सि । 'अनतो लुप्' (१।४।५९) सिलुप् । + तुल्यः स्वरो यस्य तत् । [कृत्तिका-रोहिण्यः]* कृतिका(काः) च रोहिणी(ण्यः) च । जस् । [अश्विनी-भरणी-कृत्तिकाः] अश्विनी च भरणी च कृत्तिका(काः) च । प्र० जस् ।
[मृगशिरः-पुनर्वसु] मृगशिरश्च पुनर्वसू च । सि । 'अनतो लुप' (१।४।५९) सिलोपः । 'पुनर्वसू तु यामको आदित्यौ च' - इत्यभिधानचिन्तामणिः । (देवकाण्डे श्लोकाङ्क: ११०/१११) ।
[हेमन्त-शिशिरौ] हेमन्तश्च शिशिरश्च ।। [शिशिर वसन्तौ] शिशिरश्च वसन्तश्च । औ । [हेमन्त-शिशिर-वसन्ताः] हेमन्तश्च शिशिरश्च वसन्तश्च । प्र० जस् । [आ-मृगशिरसी] आर्द्रा च मृगशिरश्च । औ । 'औरीः' (११४५६) ई । [पुष्य-पुनर्वसू] पुष्यश्च पुनर्वसू च । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ऊ । [तिष्य-पुनर्वसू] तिष्यश्च पुनर्वसू च ।। [ग्रीष्म-वसन्तौ] ग्रीष्मश्च वसन्तश्च । औ ।।छ।।
संख्या समासे ।।३।१।१६३।। [संख्या] संख्या । सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [द्वित्राः] द्वौ वा त्रयो वा । 'प्रमाणी - संख्या०' (७।३।१२८) डप्र० → अ । 'डित्यन्त्य०' (२।१।११४) इलोपः । [त्रि-चतुराः त्रयो वा चत्वारो वा । 'नज-सु-व्युप-त्रेश्चतुरः' (७।३।१३१) अप्समासान्तः → अ । जस् ।
[पञ्च-षाः] पञ्च वा षड् वा । P5 तत् । P + तुल्याः स्वरा यत्र तत् । P * 'मघाऽप-कृत्तिकाबही' इति लिङ्गानुशासनवचनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346