________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
२९२
धर्मार्थादिषु द्वन्द्वे ।।३।१।१५९।। [धर्मार्थादिषु] धर्मश्च अर्थश्च, धर्मार्थावादिर्येषां (दी येषां) ते = धर्मार्थादयस्तेषु । [धर्मार्थी, अर्थधर्मो] धर्मश्च अर्थश्च । [कामार्थी, अर्थकामौ] कामश्च अर्थश्च । [शब्दार्थी, अर्थशब्दौ] शब्दश्च अर्थश्च । [आद्यन्तौ, अन्तादी] आदिश्च अन्तश्च । प्रथमा औ सर्वत्र ज्ञेयः । [अग्नेन्द्रौ, इन्द्राग्नी] अग्निश्च इन्द्रश्च । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) इ०→आ० । [चन्द्रार्को, अर्कचन्द्रौ] चन्द्रश्च अर्कश्च । [अश्वत्थकपित्थौ, कपित्थाश्वत्थौ] अश्वत्थश्च कपित्थश्च । [सर्पिर्मधुनी, मधुसर्पिषी] सर्पिश्च मधुश्च । औ । औरीः (१।४।५६) ई । 'अनामस्वरे नोऽन्तः' (१।४।६४) नोऽन्तः । [गुणवृद्धी, वृद्धिगुणौ] गुणश्च वृद्धिश्च । [दीर्घलघू, लघुदी?] दीर्घश्च लघुश्च । [चन्द्रराहू, राहुचन्द्रौ] चन्द्रश्च राहुश्च । [तपःश्रुते, श्रुततपसी] तपश्च श्रुतं च । औ । ‘औरीः' (१।४।५६) ई । [द्रोणभीष्मी, भीष्मद्रोणौ] द्रोणश्च भीष्मश्च । [शकृन्मूत्रम्, मूत्रशकृत्] शकृच्च मूत्रं च । [कुशकाशम्, काशकुशम्] कुश(शा)श्च काश(शा)श्च । [करभरासभौ, रासभकरभौ] करभश्च रासभश्च । [समीरणाग्नी, अग्निसमीरणौ] समीरणश्च अग्निश्च । [आदित्यचन्द्रौ, चन्द्रादित्यौ] आदित्यश्च चन्द्रश्च ।
[पाणीनीयरौढीयाः, रौढीयपाणिनीयाः] 'रुहं जन्मनि' (९८८) रुह् । रुहाते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'हो धुट्-पदान्ते' (२।१।८२) ह०→ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध०→ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः-पूर्विला स्वरदीर्घत्वम् । रूढस्याऽपत्यं = रौढिः । 'अत इञ्' (६।१।३१) इञ्प० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । रौढेरिमे छात्राः । पाणिनि । पाणिनेरिमे छात्राः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णे०' (७।४।६८) इलोपः । पाणिनीयाश्च रौढीयाश्च । जस् ।
[जित्याविपूयविनीयाः, विपूयविनीयजित्याः] 'जिं अभिभवे' (८) जि । वि ‘पूङ् पवने' (६००) पू । ‘णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादे० ' (२।३।९७) नी विपूर्व० । 'जि-विपू-न्यो हलि-मुञ्ज-कल्के' (५।१।४३) क्यप्प०→य । प्रथमे 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । जित्याश्च विपूयाश्च विनीयाश्च = जित्याविपूयविनीयाः । विनीयशब्दस्य पूर्वनिपातो न, गणे दर्शनात् ।
[ब्राह्मणक्षत्रियविट्शूद्राः, शूद्रविटक्षत्रियविप्राः] ब्राह्मणाश्च क्षत्रियाश्च विशश्च शूद्राश्च । जस् । [देवापिशन्तनू, शन्तनुदेवापी] देवापिश्च शन्तनुश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org