SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९१ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । जैमिनिश्चासौ कडारश्च । [गडुलगालवः, गालवगडुलः] गडु । गडुरस्याऽस्तीति । 'सिध्मादि-क्षुद्रजन्तु-रुग्भ्यः ' (७।२।२१) लप्र० । गालवश्चासौ गडुलश्च । [काणद्रोणः, द्रोणकाणः] द्रोणश्चासौ काणश्च । [खञ्जमौञ्जायनः, मौञ्जायनखञ्जः] मुञ्ज । मुञ्जस्याऽपत्यम् । 'नडादिभ्य आयनण्' (६।१५३) आयनणप्र०→आयन ।। 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । खञ्जश्वासौ मौञ्जायनश्च । [कुण्टवात्स्यः, वात्स्यकुण्टः] कुण्टश्चासौ वात्स्यश्च । [खेलदाक्षिः, दाक्षिखेलः] खेलश्चासौ दाक्षिश्च । [खोडकहोडः, कहोडखोड:] खोडश्चासौ कहोडश्च । खिलतिखारपायणः, खारपायणखलतिः] 'पांक रक्षणे' (१०६७) पा । खरं पातीति । 'स्था-पा-स्ना-त्रः कः' (५1१1१४२) कप्र०अ । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । खरपस्याऽपत्यम् । 'नडादिभ्य आयनण' (६।१।५३) आयनणप्र०→आयन । खलतिश्चासौ खारपायणश्च । [गौरगौतमः, गौतमगौरः] गौरश्चासौ गौतमश्च । [पिङ्गलमाण्डव्यः, माण्डव्यपिङ्गलः] मण्डु । मण्डोरपत्यम् । 'गर्गादेर्यञ्' (६।१।४२) यप्र०→य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । पिङ्गलश्चासौ माण्डव्यश्च । [वृद्धमनुः, मनुवृद्धः] वृद्धश्चासौ मनुश्च । [भिक्षुकदाक्षिः, दाक्षिभिक्षुकः] भिक्षुकश्चासौ दाक्षिण्यश्च(दाक्षिश्च) । [बठरछान्दसः, छान्दसबठरः] छन्दस् । छन्दोऽधीते छान्दसः । 'छन्दोऽधीते श्रोत्रश्च वा' (७।१।१७३) अण्प्र० । 'वृद्धि: स्वरेष्वादे०' (७।४।१) वृद्धिः । बठरश्चासौ छान्दसश्च । [तनुतृणबिन्दुः, तृणबिन्दुतनुः] तनुश्चासौ तृणबिन्दुश्च । [कूटप्लाक्षिः, प्लाक्षिकूटः] कूटश्चासौ प्लाक्षिश्च । [गडुलकाणः, काणगडुलः] गडुलश्चासौ काणश्च । [खञ्जकुण्टः, कुण्टखञ्जः] खअश्चासौ कण्टश्च । [खोडखलतिः, खलतिखोडः] खोडश्चासौ खलतिश्च । [गौरवृद्धः, वृद्धगौरः] गौरश्चासौ वृद्धश्च । [पिङ्गलभिक्षुकः, भिक्षुकपिङ्गलः] भिक्षुकश्चासौ पिङ्गलश्च । [बठरतनुः, तनुबठरः] बठरश्चासौ तनुश्च । [नटबधिरादयः] नड(ट)श्च बधिरश्च, नड(ट)बधिरावादिर्येषां ते(आदी येषां ते) ॥छ।। 卐 'छन्दोऽधीते श्रोत्रश्च वा' (७।१।१७३) सूत्रेण इयप्रत्ययो विकल्पे भवति, इयप्रत्यययोगे श्रोत्रादेशे श्रोत्रियो भवति । इयप्रत्ययाभावे 'तद् वेत्त्यधीते' (६।२।११७) अण्प्रत्यये छान्दसो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy