________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥
२९०
[पद्मपाणिः] पद्म पाणावस्य । [दण्डपाणिः] दण्डः पाणावस्य सः । [चक्रपाणिः] चक्रं पाणावस्य सः । [शूलपाणिः] शूलं पाणावस्य सः । [शार्गपाणिः] शाङ्ग पाणावस्य सः । [धनुष्पाणिः] धनुः पाणावस्य सः । 'समासेऽसमस्तस्य' (२।३।१३) षत्वम् । [धनुर्हस्तः] धनुर्हस्ते यस्य सः । [पाशहस्तः] पाशा(शः) हस्ते यस्य सः । [वज्रहस्तः] वजं हस्ते यस्य सः । [वज्रपाणिः] वजं पाणावस्य सः ॥छ।।
गड़वादिभ्यः ।।३/१1१५६॥ [गड्वादिभ्यः] गडुरादिर्येषां ते, तेभ्यः । [शिरसिगडुः, गडुशिराः] गडुः शिरसि यस्य सः ।
[शिरस्यरुः, अरुःशिराः] अरुर्वणः शिरसि यस्य सः । 'अमूर्द्ध-मस्तकात् स्वाङ्गादकामे' (३।२।२२) इत्यनेन सर्वत्र अलुप्समासः ।
[मध्येगुरुः, गुरुमध्यः] गुरुर्मध्ये यस्य सः । [अन्तेगुरुः, गुर्वन्तः] गुरुरन्ते यस्य सः । [वहेगडः] वहे = स्कन्धदेशे गर्यस्य सः ।।छ।।
प्रियः ॥३।१।१५७॥ [प्रियगुडः, गुडप्रियः] गुडः प्रियो यस्य सः । [प्रियविश्वः, विश्वप्रियः] विश्वं प्रियं यस्य सः ।
[प्रियचत्वाः, चतुष्प्रियः] चत्वारः प्रिया यस्य सः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२०३९) इत्यनेन रस्य षत्वम् । अनेन पूर्वनिपातः सर्वत्र ।।छ।।
कडारादयः कर्मधारये ।।३।११५८|| [कडारादयः] कडार आदिर्येषां ते । [कर्मधारये] कर्मधारयः (३।१।९६) सूत्रवत्, तस्मिन् ।
[कडारजैमिनिः, जैमिनिकडारः] चमू (३८०) - छमू (३८१) - जमू (३८२) झमू (३८३) - 'जिमू अदने' (३८४) जिम् । जेमतीति । 'मन्-वन्-क्वनिप्-विच क्वचित्' (५११४७) विच्प्र० । अप्रयोगीत् (१।१।३७) विज्लोपः । अग्रे इन् जेमामिनः स्वामी । जेमिनस्याऽपत्यम् । 'अत इञ्' (६।१।३१) इप्र०→इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । P4 प्रिया गुडा अस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org