SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८९ [जातपुत्रः, पुत्रजातः ] जातः पुत्रो यस्य सः । [जातदन्तः, दन्तजातः ] जाता दन्ता यस्य सः । [जातश्मश्रुः, श्मश्रुजातः ] जातं श्मश्रु यस्य सः । [पीततैलः, तैलपीतः] पीतं तैलं येन सः । [ पीतघृतः, घृतपीतः ] पीतं घृतं येन सः । [ पीतमद्यः, मद्यपीतः ] पीतं मद्यं येन सः । [पीतविषः, विषपीतः ] पीतं विषं येन सः । [ऊढभार्यः, भार्योढः ] ऊढा भार्या येन सः । [ गतार्थः, अर्थगतः ] गतोऽर्थो यस्य सः । [छिन्नशीर्षः, शीर्षच्छिन्नः] छिन्नं शीर्षं यस्य सः । [ पीतदधिः, दधिपीतः ] पीतं दधि येन सः । अनेन क्तान्तं नाम विकल्पे निपतति ||छ || प्रहरणात् ||३|१|१५४।। [प्रहरणात्] प्रह्रियतेऽनेनेति प्रहरणम्, तस्मात् । [ कलितप्रहरणः प्रहरणकलितः ] कलितं प्रहरणमनेन सः । [उत्खातखङ्गः, खड्झेत्खातः ] उत्खातं खङ्गं येन सः । [आकृष्टधन्वा, धनुराकृष्टः] आकृष्टं धनुरनेन सः । 'धनुषो धन्वन्' (७।३।१५८) अत्समासान्तः धन्वनादेशः । प्रथमा सि । ‘नि दीर्घः' (१।४।८५) दीर्घत्वम् । [ उद्यतमुश ( स ) ल:, मुश ( स ) लोद्यतः ] उद्यतं मुसलं येन सः ॥ छ ॥ [इन्द्वादिभ्यः] इन्दुरादिर्येषां ते = इन्द्वादयस्तेभ्यः । [ चन्द्रमौलिः ] चन्द्रो मौलौ यस्य सः । [ शशिशेखरः ] शशी शेखरे यस्य सः । [ पद्मनाभः ] पद्मं नाभावस्य सः । 5 श० म० न्या० उत्खातः खड्गोऽनेन । न सप्तमीन्द्वादिभ्यश्च ।।३।१।१५५ ।। [ऊर्णनाभः] ऊर्णं नाभावस्य सः । 'नाभेर्नाम्नि ' ( ७।३।१३४) अप्समासान्तः । ' अवर्णवर्णस्य' (७।४।६८) इलोपः । [ पद्महस्तः] पद्मं हस्ते यस्य सः । [ शङ्खपाणिः ] शङ्खः पाणावस्य । [दर्भपवित्रपाणिः] दर्भस्य पवित्रम्, दर्भपवित्रं पाणौ यस्य सः । Jain Education International श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy