________________
२९३
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[वसन्तग्रीष्मी, ग्रीष्मवसन्तौ] वसन्तश्च ग्रीष्मश्च । [शक्रशुची, शुचिशुक्रौ] शुक्रश्च शुचिश्च । औ । ज्येष्ठा-55षाढी ।।छ।।
लघ्वक्षरा-ऽसखीदुत्-स्वराद्यदल्पस्वरा-ऽर्यमेकम् ।।३।१।१६०।। [लघ्वक्षराऽसखीदुत्स्वराद्यदल्पस्वराऽर्यम] लघूनि अक्षराणि यत्र तत् । इच्च उच्च = इदुत् । सखि च तद् इदुच्च = सखीदुत् । न सखीदुत् = असखीदुत् । स्वर आदिर्यस्य तत् । स्वरादि च तद् अच्च = स्वराद्यत् । 5 अल्पः स्वरो यस्य तत् । लघ्वक्षरं च असखीदुच्च स्वराद्यच्च अल्पस्वरं च अर्घ्यं च = लघ्वक्षराऽसखीदुत्स्वराद्यदल्पस्वराऽर्च्यम् । सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
शर-सीर्यम सीरे साधुः । 'तत्र साधौ' (७।१।१५) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । शरश्च सीर्यं च । [तृण-काष्ठम् तृणं च काष्ठं च । [तिल-माषम्] तिलाश्च माषाश्च । [शैलौ मलय-दुर्दुरौ] मलयश्च दुर्दुरश्च । औ ।
[अग्नी-षोमौ] अग्निश्च सोमश्च । 'ईः षोम-वरुणेऽग्नेः' (३१२१४२) ई । एवं सूत्रे षोमेति निर्देशादीकारसन्नियोगे षत्वं निपात्यते ।
[अग्नि-धूमम्] अग्निश्च धूमश्च । [पति-सुतौ] पतिश्च सुतश्च । [वायु-तोयम्] वायुश्च + तोयं च । [स्वादु-तिक्तौ] स्वादुश्च तिक्तश्च । औ । [सुतसखायौ, सखिसुतौ] सुतश्च सखा च । औ । सख्युरितोऽशावेत् (१।४।८३) ऐ । एदैतोऽयाय् (१।२।२३) आय् । [बहुसखि-बहुधनौ] बहवः सखायो यस्य सः । बहु धनं यस्य सः । बहुसखा च बहुधनश्च । औ । [वीहि-यवौ] व्रीहिश्च यवश्च । औ । [पतिवसू, वसुपती] पतिश्च वसुश्च । औ । ‘इदुतोऽस्त्रेरीदूत्' (१।४।२१) ई । [अस्त्र-शस्त्रम्] अस्त्रं च शस्त्रं च । [इन्द्र-चन्द्रौ] इन्द्रश्च चन्द्रश्च । औ । [उष्ट्र-मेषम्] उष्ट्रश्च मेषश्च । [अश्व-रथम्] अश्वश्च रथश्च । [उष्ट्र-खरम्] उष्ट्रश्च खरश्च । [उष्ट्र-शशम्] उष्ट्रश्च शशश्च । ‘गवाश्वादिः' (३।१।१४४) एकार्थः । सि-अम् । [इन्द्र-वायू] इन्द्रश्च वायुश्च । औ । ‘इदुतोऽस्त्रेरीदूत्' (१।४।२१) ऊ ।
[इन्द्रा-विष्णू] इन्द्रश्च विष्णुश्च । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ऊ । 'वेदसहश्रुताऽवायु०' (३।२१४१) आ । P卐 अल्पे स्वरा यत्र तत् ।
___P + तोयश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org