Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 295
________________ अथ तृतीयाऽध्यायस्य प्रथमः पादः ।। २८६ [वैकारिमतगाजवाजम्] विकारिमतस्याऽपत्यम् । 'ऋषि-वृष्ण्वन्धक-कुरुभ्यः' (६।१।६१) अण्प्र०-→अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । गजवाजस्येदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । वैकारिमतश्च गाजवाजश्च । [गो(गौ)पालिधान-पूलासम्] गो(गौ)पालिदा(धा)नश्च पूलाश(स)श्च । [कुरण्डस्थल-पूलासम्] कुरण्डस्थलं च पूलाश(स)श्च । [दार-जारौ] दारश्च जारश्च । औ । “धर्मप्रजासंपत्ते(न्ने) दारे नान्यं कुर्वीत" इति वाक्यदर्शनात् । [विष्वक्सेनाऽर्जुनौ] विष्वक्सेनश्च अर्जुनश्च । [शूद्रार्यो] शूद्रश्च अर्यश्च । [विषयेन्द्रियाणि] विषयाश्च इन्द्रियाणि च । [गवाश्चौ] गजश्च(गौश्च) अश्वश्च । [अवन्त्यश्मकाः] अवन्त्य(तय)श्च अश्मकाश्च । जस् । [चित्रा-स्वाती माणविके] + चित्रया चन्द्रयुक्तः कालोऽपि चित्रा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प० । 'बहुलाऽनुराधा-पुष्यार्थ-पुनर्वसु-हस्त-विशाखा-स्वातेर्लुप्' (६।३।१०७) अण्लोपः (?) ('चित्रा-रेवती०' (६।३।१०८) अण्लोपः )। स्वात्या चन्द्रयुक्तया युक्तः कालः । ‘चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । 'बहुलाऽनुराधा० (६।३।१०७) अण्लोपः । चित्रा च स्वातिश्च । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ई। [केशश्मश्रु] केशाश्च श्मश्रूणि च । प्र० सि । 'अनतो लुप' (१।४।५९) सिलोपः । [भार्या-पती] भार्या च पतिश्च । [पुत्र-पती] पुत्रश्च पतिश्च ।। [स्वसृ-पती] स्वसा च पतिश्च । [जाया-पती, जम्पती] जाया च पतिश्च । गणपाठाज्जायाशब्दस्य जम्भावश्च विकल्पे निपात्यते । [पुत्र-पशू] पुत्रश्च पशुश्च । औ । [शिरो-जानु] शिरश्च जानु च । [नर-नारायणौ] नरश्च नारायणश्च । [सोमरुद्रौ] सोमश्च रुद्रश्च । [कुबेर-केशवौ] कुबेरश्च केशवश्च | औ । [काक-मयूरौ] काकश्च मयूरश्च । [उमा-महेश्वरौ] उमा च महेश्वरश्च । [पाण्डुधृतराष्ट्रौ] पाण्डुश्च धृतराष्ट्रश्च । औ । [विष्णुवासवौ] विष्णुश्च वासवश्च । औ । अनेन सर्वत्र पूर्वनिपातः । [पुरुषोत्तमः, उत्तमपुरुषः] पुरुषश्चासावुत्तमश्च । + श० म० न्या० - चित्रायां जाता चित्रा, स्वात्यां जाता स्वातिः, ते च माणविके इति चित्रास्वाती । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346