Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 294
________________ २८५ श्रीसिद्भहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [पञ्चाम्राः] पञ्च च ते आम्राश्च । प्रथमया प्रथमान्तेन पदेन यदुक्तं निर्दिष्टं तद् इति कोऽर्थः ? 'नाम्नः प्रथमैक-द्वि-बहौ' (२२१३१) - ‘गौणात समया०' (२।२।३३)- सिद्धौ तृतीया' (२।२।४३) - 'चतुर्थी' (२।२५३) - ‘पञ्चम्यपादाने' (२।२।६९) - 'अज्ञाने ज्ञः षष्ठी' (२।२।८०) - 'सप्तम्यधिकरणे' (२।२।९५) एतेषु पदेषु या(ये) या(ये) प्रथमा-द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तमीपदा उक्तास्तेषां पुरतः प्रथमैकवचनं सि यद् दीयते तत् प्रथमान्तं यतो विभक्त्यन्ताः पदाः इति वचनम्, तेन प्रथमान्तेन यदुक्तं (तत्) प्रथमोक्तमिति भावार्थः ।।छ।। राजदन्तादिषु ।।३।१।१४९।। [राजदन्तादिषु] राजदन्त आदिर्येषां ते = राजदन्तादयस्तेषु । ___ [सिक्तसंसृष्टम्] 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिच् । सिच्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त । 'क्तेऽनिटश्व-जो:०' (४।१।१११) च०→क० (?) ('च-जः क-गम्' (२।१।८६) च० →क०) । सम् 'सृजी(ज)त् विसर्गे' (१३४९) सृज् । संसृज्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप०→त । 'यज-सृजमृज०' (२।१।८७) ज०→ष० । 'तवर्गस्य०' (१।३।६०) त०-→ट० । पूर्वं संसृष्टं पश्चात् सिक्तम् । [भृष्टलुञ्चितम्] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । भ्र(9)ज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । ‘ग्रहवस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) स०→द० । 'तवर्गस्य०' (१।३।६०) द०→ज० । 'यज-सृज-मृज०' (२।१।८७) ज०→ष० । तवर्गस्य० (१।३।६०) त०→ट० । पूर्वं लुचितं पश्चाद् भृष्टम् । [नग्नमुषितम्] पूर्वं मुषितं पश्चान्नग्नम् । [अवक्लिन्नपक्वम्] पूर्वं पक्वं पश्चादवक्लिन्नम् । [अर्पितोतम] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२19) वा । ऊयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'यजादि-वचेः किति' (४|११७९) य्वृत् व०→उ० । पूर्वमुतं पश्चादर्पितम् । [उप्तगाढम्] पूर्वं गाढं पश्चादुप्तम् । [उत्तमर्णः] ऋणे उत्तमः । [तन्दुल-किण्वम] तन्दुलं च किण्वं च । किण्वं-सुरोपकरणद्रव्यम् । +[चित्ररथवाहलीकौ] चित्ररथश्च वाहलीकश्च । [स्नातक-राजानौ] स्नातकश्च राजा च । [उशीरबीज-शिञ्जास्थम्] उसी(शी)रबीजश्च* सिं(शिं)जास्थश्च । [आरद्वायनि-चान्धनि आरद्वायनि च चान्धनि च । प्र० सि । 'अनतो लुप' (१।४।५९) सिलोपः । [अधरोष्ठम्] अधरश्च ओष्ठश्च । ॐ बृहवृत्तौ - सिक्तसंमृष्टम् । ॐ श म० न्या० - आरट्वायनिश्च चान्धनिश्च । + श० म० न्या० - चित्ररथवाल्हीको इति - चित्ररथो राजविशेष एव वाल्हीकपदसान्निध्यात्, वाल्हीको नाम देशः, तस्य राजापि वाल्हीकः । यद्यपि चित्ररथो नाम गन्धर्वराजः पुराणादिषु प्रसिद्धः, परमिह स न ग्रहीतव्यस्तस्य राज्ञा सह सहचरितत्वस्याप्रसिद्धत्वात् । * श० म० न्या० - शिक्षास्थमिति तालव्यादेः स्थाने सिञ्जास्थम् - सिञ्जाश्वत्थम् इति द्वौ दनयादी द्वन्द्वौ पठयेते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346