Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 293
________________ vvvNNNNA अथ तृतीयाऽध्यायस्य प्रथमः पादः । २८४ [द्वावर्का-ऽश्वमेधौ] द्वि । औ । 'आ ढेरः' (२।१।४१) इ० अ० । “ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ । अर्कश्च अश्वमेधश्च । औ । [द्वादश पदक-क्रमकाः] द्वि । दशन् । द्वाभ्यामधिका दश । 'द्वित्र्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ' (३।२।९२) "द्वा" आदेशः । प्र० जस् । ‘डतिष्णः संख्याया लुप्' (१।४।५४) जस्लोपः । पदकश्च क्रमकश्च । प्र० जस् । [द्वौ गङ्गा-शोणौ] गङ्गा च शोणश्च । [पञ्च तक्षा-ऽयस्काराः] पञ्चन् । प्र०जस् । ‘डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लोपः । तक्षा च (तक्षाणश्च) अयस्काराश्च । [इयन्तो गवा-ऽश्वाः] इदम् । इदं परिमाणमेषां ते । 'इदं-किमोऽतुरिय-किय्-चास्य' (७।१।१४८) अतुप्र० - इयादेशः । जस् । 'ऋदुदितः' (१।४७०) नोऽन्तः । गावश्च अश्वाश्च । 'गोर्नाम्न्यवोऽक्षे' (१।२।२८) (?) ('स्वरे वाऽनक्षे' (११२।२९) अव) । प्र० जस् ॥छ। वाऽन्तिके ।।३।१।१४७।। [अन्तिके] अन्त । अन्तोऽस्याऽस्तीति । 'अतोऽनेकस्वरात्' (७।२।६) इकप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । सप्तमी ङि । [उपदशं गो-महिषम्] उपदशमित्यत्र ‘प्रमाणी-संख्या०' (७।३।१२८) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । गौश्च महिषश्च ।।छ।। प्रथमोक्तं प्राक् ।।३।१।१४८॥ [प्रथमोक्तम्] 5 प्रथमया व(उ)क्तं = प्रथमोक्तम् । [आसन्नदशाः] आसन्ना दश येषां ते । 'प्रमाणी-संख्या०' (७।३।१२८) डप्र०→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः । जस् । [सप्तगङ्गम्] सप्तानां गङ्गानां समाहारः । ‘संख्या समाहारे' (३।१।२८) इत्यनेनाऽव्ययीभावः । ‘क्लीबे' (२।४।९७) ह्रस्वः । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । सप्त गङ्गा समाहृता वा । [ऊरीकृत्य] ऊरीकरणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र०→त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । [कष्टश्रितः] कष्टं श्रितः । [शड्कुलाखण्डः] शड्कुलया खण्डः । [यूपदारु] यूपाय दारु । [वृकभयम्] वृकादयम् । [राजपुरुषः] राज्ञः पुरुषः । [अक्षशौण्डः] अक्षेषु शक्तः शौण्डः । [नीलोत्पलम्] नीलं च तदुत्पलं च । P卐 प्रथमया उच्यन्ते स्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346