Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ तृतीयाध्यायस्य प्रथमः पादः ॥
[सर्पिर्मधुनी] सर्पिश्च मधु च । औ । 'औरीः ' (१।४।५६ ) ई । 'अनाम्स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । [ मधुसर्पिषी ] मधु च सर्पिश्च । औ । 'औरी : ' (१।४।५६ ) ई ।
[हरि-वासवो] हरिश्च वासवश्च ।
[ब्रह्म-प्रजापती] ब्रह्मा च प्रजापतिश्च । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ई ।
[शिव-वैश्रवणो] शिवश्च वैश्रवणश्च । विश्रवणस्य (विश्रवसः) अपत्यम् । 'णश्च विश्रवसो विश्लुक् च वा' ( ६ |१ |६५) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः वै । अवर्णवर्णस्य ( ७|४|६८) अलोपः ।
[ स्कन्द - विशाखी] स्कन्दश्च विशाखश्च । औ ।
[परिजा-कौशिको ] कुश (शिक )स्याऽपत्यम् । 'विदा० (६।१।४१) अञ्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः औ । 'अवर्णवर्णस्य' ( ७।४।६८) अलोपः । परिजाश्च ( जा च ) कौशिकश्च ।
[प्रवर्ग्याऽपसदौ ] प्रवर्ग्यश्च अपसदश्च ।
[आद्यवसाने] आदिश्च अवसानं च । औ । 'औरीः ' (१।४।५६ ) ई ।
[ सूर्याचन्द्रमसौ] सूर्यश्च चन्द्रमस (मा) श्च । 'वेदसहश्रुताऽवायुदेवतानाम् ' ( ३।२।४१) आ ।
[मित्रावरुणौ ] मित्रश्च वरुणश्च । 'वेदसहश्रुताऽवायुदेवतानाम्' ( ३।२।४१) आ ।
[ अग्नीषोमी] अग्निश्च सोमश्च । 'ईः षोम- वरुणेऽग्नेः' (३।२।४२) ई ।
[ सोमा रुद्री] सोमश्च रुद्रश्च । 'वेदसहश्रुताऽवायुदेवतानाम्' ( ३।२।४१) आ ।
[ नारद-पर्वतौ ] नारदश्च पर्वतश्च ।
[ खण्डा (ण्ड ) मर्को ] खण्डश्च मर्कश्च ।
[नर-नारायणी] नरश्च नारायणश्च ।
[ राम-लक्ष्मणौ ] रामश्च लक्ष्मणश्च ।
[भीमा-ऽर्जुनौ ] भीमश्च अर्जुनश्च ।
[ कम्बला - ऽश्वतरौ ] कम्बलश्च अश्वतरश्च ।
[ माता- पितरौ ] माता च पिता च ।
[पिता-पुत्रौ ] पिता च पुत्रश्च । 'पुत्रे' ( ३।२।४० ) आ ।
[ श्रद्धा मेधे ] श्रद्धा च मेधा च । औ । 'औता' (१।४।२०) ए ।
[ शुक्ल- कृष्णे] शुक्लं च कृष्णं च । औ । 'औरी : ' (१।४।५६ ) ई । 'अवर्णस्ये० ' (१।२।६) ए ।
[ इध्मा- बर्हिषी ] इध्मं च बर्हिश्च । औ । 'औरीः ' (१।४।५६ ) ई । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० ।
२८२
[ ऋक्सामे] ऋक् च साम च ।
[ वाङ्मनसे ] वाक् च मनश्च । 'ऋक्सामर्ग्यजुष-धेन्वनडुह-वाङ्मनसा०' ( ७।३।७९ ) अत्समासान्तः । औ । 'औरीः ' (१।४।५६) ई । 'अवर्णस्ये० ' (१।२।६) ए ।
5 विदादिगणे कुशिक अस्ति ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346