SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य प्रथमः पादः ॥ [सर्पिर्मधुनी] सर्पिश्च मधु च । औ । 'औरीः ' (१।४।५६ ) ई । 'अनाम्स्वरे नोऽन्तः ' (१।४।६४) नोऽन्तः । [ मधुसर्पिषी ] मधु च सर्पिश्च । औ । 'औरी : ' (१।४।५६ ) ई । [हरि-वासवो] हरिश्च वासवश्च । [ब्रह्म-प्रजापती] ब्रह्मा च प्रजापतिश्च । औ । 'इदुतोऽस्त्रेरीदूत्' (१।४।२१) ई । [शिव-वैश्रवणो] शिवश्च वैश्रवणश्च । विश्रवणस्य (विश्रवसः) अपत्यम् । 'णश्च विश्रवसो विश्लुक् च वा' ( ६ |१ |६५) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः वै । अवर्णवर्णस्य ( ७|४|६८) अलोपः । [ स्कन्द - विशाखी] स्कन्दश्च विशाखश्च । औ । [परिजा-कौशिको ] कुश (शिक )स्याऽपत्यम् । 'विदा० (६।१।४१) अञ्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः औ । 'अवर्णवर्णस्य' ( ७।४।६८) अलोपः । परिजाश्च ( जा च ) कौशिकश्च । [प्रवर्ग्याऽपसदौ ] प्रवर्ग्यश्च अपसदश्च । [आद्यवसाने] आदिश्च अवसानं च । औ । 'औरीः ' (१।४।५६ ) ई । [ सूर्याचन्द्रमसौ] सूर्यश्च चन्द्रमस (मा) श्च । 'वेदसहश्रुताऽवायुदेवतानाम् ' ( ३।२।४१) आ । [मित्रावरुणौ ] मित्रश्च वरुणश्च । 'वेदसहश्रुताऽवायुदेवतानाम्' ( ३।२।४१) आ । [ अग्नीषोमी] अग्निश्च सोमश्च । 'ईः षोम- वरुणेऽग्नेः' (३।२।४२) ई । [ सोमा रुद्री] सोमश्च रुद्रश्च । 'वेदसहश्रुताऽवायुदेवतानाम्' ( ३।२।४१) आ । [ नारद-पर्वतौ ] नारदश्च पर्वतश्च । [ खण्डा (ण्ड ) मर्को ] खण्डश्च मर्कश्च । [नर-नारायणी] नरश्च नारायणश्च । [ राम-लक्ष्मणौ ] रामश्च लक्ष्मणश्च । [भीमा-ऽर्जुनौ ] भीमश्च अर्जुनश्च । [ कम्बला - ऽश्वतरौ ] कम्बलश्च अश्वतरश्च । [ माता- पितरौ ] माता च पिता च । [पिता-पुत्रौ ] पिता च पुत्रश्च । 'पुत्रे' ( ३।२।४० ) आ । [ श्रद्धा मेधे ] श्रद्धा च मेधा च । औ । 'औता' (१।४।२०) ए । [ शुक्ल- कृष्णे] शुक्लं च कृष्णं च । औ । 'औरी : ' (१।४।५६ ) ई । 'अवर्णस्ये० ' (१।२।६) ए । [ इध्मा- बर्हिषी ] इध्मं च बर्हिश्च । औ । 'औरीः ' (१।४।५६ ) ई । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० । २८२ [ ऋक्सामे] ऋक् च साम च । [ वाङ्मनसे ] वाक् च मनश्च । 'ऋक्सामर्ग्यजुष-धेन्वनडुह-वाङ्मनसा०' ( ७।३।७९ ) अत्समासान्तः । औ । 'औरीः ' (१।४।५६) ई । 'अवर्णस्ये० ' (१।२।६) ए । 5 विदादिगणे कुशिक अस्ति । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy