SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८३ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [याज्या-ऽनुवाक्ये] + याज्यश्च अनुवाक्यं च । [दीक्षा-तपसी] दीक्षा च तपश्च । [श्रद्धा-तपसी] श्रद्धा च तपश्च । [मेधा-तपसी] मेधा च तपश्च । [अध्ययन-तपसी] अध्ययनं च तपश्च । [उलूखल-मुश(स)ले] उलूखलं च मुसलं च । औ । ‘औरीः' (१।४।५६) ई । [चण्डाल-मृतपादयः] चण्डालश्च मृतपश्च, चण्डालमृतपा(प) आदिर्येषां ते ।।छ।। संख्याने ॥३।१।१४६।। [संख्याने] संख्यायते येन तत् = संख्यानम्, तस्मिन् । [दश गो-महिषाः] दशन जस । 'डति-ष्णः संख्याया लुप' (१।४।५४) जसलोपः । गावश्च महिषाश्च । जस । [एतावन्ति दधि-घृतानि] एतद् । एतत्परिमाणमेषाम् । 'यत्-तदेतदो डावादिः' (७।१।१४९) डावतुप्र०→आवत् । 'डित्यन्त्यस्वरादे:' (२।१।११४) अल्लोपः । जस् । ‘नपुंसकस्य शिः' (१।४।५५) शि० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । दधीनि च घृतानि च । जस । 'नपुंसकस्य शिः' (१।४।५५) शि०→इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [बहवः प्लक्ष-न्यग्रोधाः] प्लक्षाश्च न्यग्रोधाश्च । [दश हस्त्यश्वाः] दशन् प्र०जस् । ‘डतिष्णः संख्याया लुप्' (१।४।५४) जस्लोपः । हस्तिनश्च अश्वाश्च । [शतं यूका-लिक्षाः] यूकाश्च लिक्षाश्च । [तावन्ति बदरा-5ऽमलकानि] तद् । तत्परिमाणमेषाम् । 'यत्-तदेतदो-डावादिः' (७।१।१४९) डावतुप्र०→आवत् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लोपः । प्र० जस् । 'नपुंसकस्य शिः' (१।४।५५) शि० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । बदर्याः फलम् । 'हेमादिभ्योऽ' (६।२।४५) अप्र० । बदराणि च आमलकानि च । [बहवः पाणि-पादाः] + पाणी च पादौ च । प्र० जस् । [कति मार्दङ्गिक-पाणविकाः] किम् । का परिमाणमेषां कति । 'यत्-तत्-किमः संख्याया डतिर्वा' (७।१।१५०) डतिप्र० →अति । 'डित्यन्त्यस्वरादेः' (२।१।११४) इमलोपः । जस् । ‘डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लोपः । मृदङ्ग । मृदङ्गवादनं शिल्पमेषां ते । 'शिल्पम्' (६।४।५७) इकणप्र०→इक । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । पणव । पणववादनं शिल्पमेषां ते । 'शिल्पम्' (६।४।५७) इकणप्र०→इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । मार्दभिकाश्च पाणविकाश्च । [उदगुर्दशेमे कठकालापाः] 'इंण्क् गतौ' (१०७५) इ, उत्पूर्व० । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट' (४१३१६६) सिज्लोपः । 'इणिकोर्गा' (४।४।२३) गा । 'सिज-विदोऽभुवः' (४।२।९२) पुसआदेशः उस् । 'इडेत्-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः । 'अड़ धातोरादि०' (४।४।२९) अडागमः । कठाश्च कालापाश्च । प्र० जस् । + श० म० न्या० - याज्या च अनुवाक्या च । P卐 पाणयश्च पादाश्च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy